SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अर्थः- तस्मिन् काले तस्मिन् समये यदा ऋषभादितीर्थंकरैः उक्तं तस्मिन् काले तस्मिन् समये श्रीपार्श्वः अर्हन् | पुरुषादानीयः उष्णकालस्य प्रथमे मासे, प्रथमे पक्षे चैत्रमासस्य कृष्णपक्षे चतुर्थीदिने प्राणतनाम्नः दशमदेवलोकात् विंशतिसागरोत्कृष्टायुष्कात् अनन्तरं च्युत्वा अस्मिन् एव जम्बूद्वीपे भरतक्षेत्रे काशीदेशे वाणारस्यां नगर्यां अश्वसेनस्य राज्ञः वामानाश्याः राज्ञ्याः पूर्वरात्राऽपररात्रकालसमये मध्यरात्रसमये विशाखानक्षत्रे चन्द्रे संयोगं प्राप्ते सति देवसम्बन्धिनः आहारत्यागे, देवसम्बन्धिनो भवस्य त्यागे देवसम्बन्धीयभवधारणीयवैकियशरीरत्यागे सति मातुर्गर्भे गर्भत्वेन उत्पन्नः ॥ अथ प्राणतदेवलोके कस्मात् भवात् समागतः श्रीपार्श्वनाथस्य जीवः ? । ततः प्राग् भवाः श्रीपार्श्वनाथस्य प्रोच्यन्ते अस्मिन् जम्बूद्वीपे भरतक्षेत्रे पोतनपुरं नाम नगरं । तत्र अरविन्दो नाम भूपतिरभूत् । तस्य विश्वभूतिनामा पुरोहितः, तस्य स्त्री अनुद्धरी नानी, अनुक्रमेण तस्य विश्वभूतिपुरोहितस्य द्वौ पुत्रौ अभूताम् । आयः कमठः, द्वितीयो मरुभूतिः । एकदा विश्वभूतिअणुद्धयौं उभौ अपि कालधर्मं प्राप्तौ । तदा अरविन्देन राज्ञा पुरोहितस्य पदवी कमठाय प्रदत्ता, कमठस्तु खभावेन कठोरः, क्रूरो, लम्पटः शठश्च आसीत् । मरुभूतिस्तु प्रकृत्या सरलः, धर्मज्ञः, श्रावकाचारपालनोऽभूत् । कमठस्य वरुणानाम्नी पत्नी । मरुभूतेर्वसुन्धरानाम्नी पत्नी, अत्यन्तरूपवती For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy