________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यन् श्रीमहावीरः स्वामी मुक्तिं गतः, सम्यक् प्रकारेण उत्-उचं गतः, पुनरधो नाऽऽयास्यति अनेन प्रकारेण के में गतः, छिन्नजन्मजरामरणबन्धः, सिद्धः, बुद्धः, मुक्तः, अन्तकृत् सकलकर्मान्तकारी, परिनिर्वातः-परिसमन्तात् । शीतलो जातः-दुःखसन्तापादु रहितो जात इत्यर्थः । सर्वदुःखै रहितः सञ्जातः-शाश्वतैः सुखैर्मिलित आसीत् ।।
समणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पहीणस्स नव वाससयाई विइकंताई, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ, वायणंतरे पुण 'अयं तेणउए संवच्छरे काले गच्छई' इति दीसइ ॥ १४७॥ श्रमणस्य भगवतो महावीरस्य मुक्तिगमनात् पश्चात् नवशतअशीति ९८० वर्षेषु गतेषु देवर्द्धिगणिक्षमाश्रमणेन कालविशेषेण बुद्धिं हीयमानां ज्ञात्वा सिद्धान्तविच्छेदं भाविनं विचिन्त्य प्रथमद्वादशवार्षिकदुर्भिक्षस्य प्रान्ते सर्वसाधून संमील्य वलभीनगर्यां श्रीसिद्धान्तः पुस्तकेषु कृतः-पत्रेषु लिखितः, पूर्वं सर्वसिद्धान्तानां | पठन पाठनं च मुखपाठेनैव आसीत् , ततः पश्चाद्गुरुभिः पुस्तकेन सिद्धान्तः शिष्येभ्यः पाठ्यते इयं रीतिरभूत्।। केचिद् आचार्या अत्र एवमाहुः-भगवतो मुक्तिगमनादनन्तरं अशीत्यधिकनववर्षशते (९८०) ध्रुवसेनस्य राज्ञः पुत्रशोकनिवारणाय सभालोकसमक्षं कल्पसूत्रं श्रावितम् । अत्र गीतार्थाः वदन्ति तत्प्रमाणं । पुनर्नवशतत्रिवतिवर्षेः ९९३ श्रीवीरनिर्वाणात् श्रीस्कन्दिलाचार्येण द्वितीयद्वादशवार्षिकीयदुर्भिक्षप्रान्ते मथुरापुयाँ साधून
For Private and Personal Use Only