________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
रासी महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते, तप्पभिई चणं समणाणं निग्गंथाणं निग्गंथीण य नो उदिए उदिए पूआसकारे पवत्तइ ॥१२९॥ जया णं से खुदाए जाव जम्मनक्खत्ताओ विइक्कंते भविस्सइ, तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए उदिए पूआसक्कारे भविस्सइ ॥ १३०॥
यस्यां रात्रौ भगवतः श्रीमहावीरस्य निर्वाणमभूत् , तस्यां रात्रौ काशीदेशस्य अधिपाः, मल्लकीगोत्रीया नवराजानः, तथा कौशलदेशस्य अधिपाः, लेच्छकीयगोत्रीया नवराजानः, एते अष्टादश नृपाः, श्रीमहावीरस्य मातुलश्चेटको राजा, तस्य सामन्ता अष्टादश गणराजानस्तैरष्टादशनृपः पाराभोगः संसारपारकारी पौषधः-अष्टमहरात्मको गृहीत आसीत् , उपवासः कृत आसीत् । श्रीमहावीरस्य निर्वाणे जाते सति तैातं-तीर्थकरो ज्ञानवान् भावोद्योतकारी स च निर्वातः । अथ द्रव्योद्योतं प्रदीपात्मकं करिष्यामः । तदा | तैपैः आलयेषु रत्नानि धृतानि, तैश्च रत्नैर्दीपसदृशः प्रकाशोऽभूत् । पुनर्यस्यां रात्रौ श्रमणो भगवान महावीरो निर्वाणं प्राप्तः, तस्यां रात्रौ क्षुद्रो दुष्टः भस्मराशिनामा अष्टाशीतिग्रहाणां मध्ये त्रिंशत्तमो ग्रहः, यश्च एकस्मिन् राशौ द्विसहस्रवर्षाणि तिष्ठति स भस्मराशिग्रहः भगवतो जन्मराशौ समागतः, स यावद् भगवतो
For Private and Personal Use Only