SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पुनरुत्तराफाल्गुनीनक्षत्रे भगवतः श्रीमहावीरस्य जन्म अभूत् ।। पुनः श्रीमहावीर उत्तराफाल्गुनीनक्षत्रे दीक्षां गृहीत्वा, गृहवासं त्यक्त्वा अनगारो जातः।४। पुनः श्रीमहावीरस्य उत्तराफाल्गुनीनक्षत्रे एव अनन्ते अनन्तार्थविषयत्वेन, पुनरनुत्तरे सर्वेभ्य उत्कृष्टे, निर्व्याघाते कट-कुट्यादिना अनाहते, निरावरणे क्षायिकत्वेन | आच्छादनरहिते, पुनः कृत्स्ले समस्तानां पदार्थानां ग्राहके, प्रतिपूर्णे पूर्णिमाचन्द्रमण्डलोपमे-सकलांशसहिते, केवले असहाये, एतादृशे वरे प्रधाने ज्ञान-दर्शने समुत्पन्ने । एतानि पञ्च कल्याणकानि श्रीमहावीरदेवस्य । उत्तराफाल्गुनीनक्षत्रे जातानि । तथा स्वातिनक्षत्रे चन्द्रे सति भगवान् श्रीमहावीरः परिनिवृतो मोक्ष प्राप्तः।। एवं षट् कल्याणकानि श्रीमहावीरस्य संक्षेपेण निरूपितानि । अग्रेद्वितीयवाचनायां विस्तरत्वेन व्याख्यास्यामः॥ । १.श्रीवीरस्य षट् कल्याणकानि बहुषु आगमेषु तीर्थकर-गणधरमहाराजैःप्रतिपादितानि सन्ति । स्थानाङ्गसूत्रस्य पञ्चमे स्थानके पद्मप्रभ-सुविधिशीतलप्रभृतिवीरपर्यन्तचतुर्दशतीर्थकराणां च्यवनादि पञ्च पञ्च कल्याणकसंख्यामीलनेन सप्ततिकल्याणकानि दर्शितानि । तथाहि तत्पाठो यथा पउमप्पमेणं अरहा पंचचित्ते होत्था, तं जहा चित्ताहिं चुए चइत्ता गम्भं वकंते ।१चित्ताहि जाए । चिचाहिं मुंडे मवित्ता अगाराओ अणगारियं पवइए।३। चित्ताहि अणते अणुत्तरे णिवाघाए निरावरणे कसिणे पडिप्पुब्ने केवलपरमाण-दसणे समुप्पन्ने ।४। चित्ताहिं परिनिव्वुए।५॥१॥ पुप्फदंते णं अरहापंचमूले होत्था, मूलेणं चुए चइत्ता गम्भंवकंते ।। एवं चेव एएणं अमिलावेणं इमाओ गाहाओ अणुगतबाओ। पउमप्पभस्स चित्ता ।५।मूले पुण होइ पुष्फदंतस्स ।५। पुवासाढा सीयलस्स 1५। उत्तरा विमलस्स भद्दवया ॥५॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy