________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१२॥
804
तस्मिन् काले चतुर्थारके, तस्मिन् समये-यस्मिन् समये.श्रीमहावीरदेवो देवानन्दाया ब्राह्मण्याः कुक्षौ दश-IN] कल्पद्रुम मदेवलोकस्य प्रधानपुष्पोत्तरनाम्नो विमानात् च्युत्वा समुत्पन्नः स समयोऽत्र गृह्यते, तस्मिन् समये। 'णं' इति कलिका वाक्यालंकारे । श्रीमहावीरदेवस्य पञ्च कल्याणकानि उत्तराफाल्गुनीनक्षत्रे अभूवन् । हस्तः हस्तनक्षत्रम् , उत्तरः
वृत्तियुक्तं. अग्रे, उत्तरस्यां वा यासां ता हस्तोत्तराः । उत्तराफाल्गुनीनक्षत्रादू अग्रे हस्तनक्षत्रमस्ति, तेन उत्तराफाल्गुनीन
व्याख्या. क्षत्रं हस्तोत्तराख्यमुच्यते । यानि पञ्च कल्याणकानि जातानि, तान्याह__ हत्थुत्तराहिं चुए चुइत्ता गन्भं वकन्ते । १ । हत्थुत्तराहिं गब्भाओ गब्भं साहरिए ।२।
हत्थुत्तराहिं जाए । ३ । हत्थुत्तराहिं मुंडे भवित्ता अगाराओ अणगारिअं पवइए । ४ । हत्थुत्तराहिं अणंते, अणुत्तरे, निवाघाए, निरावरणे, कसिणे, पडिपुण्णे केवलवरनाण-दंसणे समुप्पन्ने । ५। साइणा परिनिव्वुए भयवं ॥६॥१॥
INT॥१२॥ तद्यथानुक्रमेण वर्णयति-भगवान् श्रीमहावीरः उत्तराफाल्गुनीनक्षत्रे देवविमानात् च्युतः, च्युत्वा गर्भत्वेन उत्पन्नः ।। पुनरुत्तराफाल्गुनीनक्षत्रे देवानन्दायाः कुक्षितो हरिणेगमेषिणा देवेन त्रिशलायाः कुक्षाववतारितः
For Private and Personal Use Only