________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चण्डपिङ्गालचौराय कलावत्या वेश्यया नमस्कारः श्रावितोऽभूत्, ततः शूलाविद्धोऽपि भूत्वा चण्डपिङ्गलः तत्रैव नगर्या नृपस्य पुत्रोऽभूत् । हुण्डकोऽपि यक्षस्य नाम । राजगृहपुर्या प्रसेनजितराजा । रूपखुरनामा चौरो रसना-N लम्पटो नित्यं नृपेण सह भुञ्जानो धूमप्रयोगेण बद्धा शूलाविद्धो जिनदासेन प्रदत्तनमस्कारो मृत्वा यक्षो बभूव ।। जिनदासश्राद्धो राज्ञा पीड्यमानो यक्षेण मोचितः, कृतसाहाय्यो गजारूढः खगृहमाजगाम । एवमन्येऽपि नम-1 स्कारस्य बहवो दृष्टान्ताः सन्ति ॥ .
अथ श्रीमद्भगवन्महावीरदेवस्य पश्चानुपूर्व्या आसन्नोपकारित्वेन षट् कल्याणकानि श्रीभद्रबाहुस्वामी वर्णयति| ते णं काले णं, ते णं समए णं, समणे भगवं महावीरे पंच हत्थुत्तरे होत्था, तं जहा-॥ IN कलशे तद्भर्ता प्रचिक्षेप, घटमुखं पिधाय घोरान्धकारे कलशं मुमोच. द्वितीये अह्नि भर्ता विष्णुपूजां कुर्वन् श्रीमतीम् आदिष्टवान अपवरके
घटे मुक्तां पुष्पस्रजम् आनय, येन पुष्पपूजा भवेत् , तयाऽपि तद्वचः प्रतिपद्य गर्भागारे कलशपिधानम् अपनीय ॐ नमो अरिहंताणं' इति भणित्वा हस्तं प्रक्षिप्य पुष्पमालाम् आदाय भ. यावद् ददाति तावत् स कृष्णसर्प एव तेन दृष्टो भीतश्च, भर्ता मनसि ध्यौ अहो!! अस्या धर्मः श्रेयान , इति विचिन्त्य तस्याः पन्या एवं मुखातू सोऽपि जैनधर्म प्रतिपेदे, इति श्रीमतीदृष्टान्तः ।।
For Private and Personal Use Only