________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पिते यादृशं भुवनं भवति तादृशं अद्य भरतक्षेत्र सञातं इत्युक्त्वा विलपति गौतमः । अहो वीर ! त्वया कि कृतं, यस्यां वेलायां आत्मीयाः शिशवः दूरादाहूयन्ते तस्यां वेलायां अहं त्वया दूरीकृतः, अयं लोकव्यवहारोऽपि न पालितः । अहं किं बालवत् वस्त्राञ्चलं गृहीत्वा मुक्तिं गन्तुं न अदास्यं, अथवा किमहं केवलज्ञानं अमार्गयिष्यं, अथवा किं त्वयि विषये मम कृत्रिमः स्नेह आसीत् । अथवा किं अग्रे मुक्तिस्थानं मया कृत्वा संकीर्णमभविष्यत्, यत् त्वां मां लात्वा न अगमिष्यः। अथवा किमहं त्वां असुखोऽभूवम् । हे वीरखामिन् ! खयाऽहं कथं विस्मारितः ? अद्य पश्चात् कस्मै सन्देहप्रश्नं करिष्यामि । त्वया महान् दाहो दत्तः, मदुःखं को भक्ष्यति । एवं दुःखं कृत्वा पुनरपि गौतमेन चिन्तितं-अहो वीतरागः श्रीमहावीरः, वीतरागस्तु निस्नेह एव भवति, धिग् मां यतोऽत्र श्रुतज्ञानेनाऽपि मया न ज्ञातं मोहस्य माहात्म्यम् , निमोहे को मोहः न कोऽपि अत्र मम, न कस्याऽप्यहमस्मि, अयं आत्मा एक एव शाश्वतो ज्ञानदर्शनचारित्रमयः, शेषाः सर्वे भावा अशाश्वता अनित्याः । एवं भावनां भावयतो गौतमस्य केवलज्ञानं उत्पन्नं, प्रभातसमये सर्वे देवा इन्द्राश्चागत्य केवलमहिमानं चक्रुः।श्रीजम्बूद्वीपप्रज्ञप्त्यां यथा विधिः उक्तोऽस्ति, तेन विधिना श्रीवीरशरीरं संस्लाप्य चन्दनन संस्कारयन्ति, खखाधिकारेण दंष्ट्रां, दन्तान् , रक्षां च लात्वा देवाः स्वीयखीयविमानेषु रत्नसमुद्गकेषु प्रपूज्य प्रक्षेपयन्ति । श्रीमहावीरस्य निर्वाणं विवाहमङ्गलसदृशं ज्ञेयम् । यदुक्तम्
For Private and Personal Use Only