________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं ॥१४६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मा कुरु । गौतमोऽवादीत् खामिन्! एते नवदीक्षिताः केवलिनो भवन्ति । मम कथं केवलं नोत्पद्यते । खामिनोक्तं पर्यन्ते आवयोः साम्यमस्ति त्वं मयि लेहं त्यज यथा केवलं उत्पद्यते, गौतमेनोक्तं खामिन् ! मम केवलेन नो कार्यं त्वयि मम स्नेहो मा व्रजतु । एतादृशो गौतमो गुरुभक्तः । पुनर्गोतमः प्रतिबोधनेऽतीवनिपुणःयेन षवार्षिकोऽतिमुक्तककुमारः प्रतिबोधितः । पश्चात् एकदा वर्षाणां जले कच्छिलिकां धृत्वा मध्ये दण्डं ऊर्ध्व| कृत्य नावमिव तारयति स्म । पश्चाद् भगवदग्रे ईर्यापथिकीं प्रतिक्रामन् अष्टादशलक्षचतुर्विंशतिसहस्रएकशतविंशतिमिथ्यादुष्कृतानि ददत् केवली जातः । एतादृशो गौतमखामी, येन प्रतिबोधितोऽतिमुक्तककुमारो लघुरपि केवली जात इत्यर्थः । इत्यादि श्रीगौतमस्य चरित्रं कियत् कथ्यते । भगवती सूत्रमध्ये पट्टत्रिंशत्सहस्रप्रश्नानां भगवता उत्तराणि दत्तानि तानि - हे गौतम! अस्य प्रश्नस्योत्तरं एवं वर्तते इति नामग्राहं उत्तराणि दत्तानि । अथ भगवता खनिर्वाणसमयं ज्ञात्वा गौतमस्नेहं च ज्ञात्वा मध्यमपापायाः समीपग्रामे तस्मिन् दिने देवशर्मब्राह्मणस्य प्रतिबोधनार्थं गौतमः प्रेषितः । तस्यां एव रात्रौ महावीरस्य निर्वाणमभूत् । प्रातः देवानां | मुखात् श्रुत्वा गौतमो वज्राहत इवाऽऽसीत् । पुनश्चेतनां प्राप्य गौतमः प्राह, इदानीं मिथ्यात्वान्धकारं प्रसृतं इदानीं कुमतिघूकवृन्दं जागरितं, सप्तैव इतयः प्रवर्तिताः, हे खामिन् ! त्वं जगत्रयसूर्यः अस्तं प्राप्तः, चतुर्विधसवस्य मुखकमलं म्लानं सञ्जातं, पाखण्डिनस्तारका देदीप्यन्ते, पापराहुर्ग्रसति, धर्मचन्द्रो न दृश्यते, दीपे विध्या
For Private and Personal Use Only
कल्पद्रुम कलिका
वृत्तियुक्तं• व्याख्या.
॥१४६॥