SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir !अधः शिलापट्ट प्रमाय गौतमखामी तत्रैव तद्दिने स्थितः । तत्र च रात्री वज्रस्वामिजीवस्तिर्यगजृम्भगदेवः। प्रतिबोधितः । प्रभाते देवदर्शनं कृत्वा यदा उत्तीर्णस्तदा ते त्रिभिरधिकाः पञ्चदशशततापसा गौतमस्य माहात्म्यं दृष्ट्वा शिष्याः सञ्जाताः, तेषां तापसानां पूर्व पञ्चशती एकनाधिका एकान्तरितोपवासकारिका पारणायां वृक्षफलानि भुते, पुनः पञ्चशती एकेनाधिका उपवासद्वयकारिका पारणायां शुष्कानि वृक्षेभ्यः खयमेव वातादिना पतितानि पत्र-पुष्प-फलानि भुङ्क्ते, पुनः पञ्चशती एकेनाधिका त्रिदिनं उपोषितपारणे शुष्कं सेवालं तदपि बिडालपदमानं त्रिचलुकमम्बुना सह भुते, एतादृशेन तपसा ते अतीव कृशशरीरा आसन् । यदा गौतमखामिना दीक्षितास्तदा तेभ्यः पृष्टं भोः तपखिनः ! अद्य भवतां केनाहारेण पारणं कारयामस्तदा तैः परमान्नं मार्गितं गौतमखामिना अक्षीणमहानसलब्ध्या एकेन परमान्नपात्रेण सर्वेऽपि भोजिताः, तदा एकाधिकपश्चशततापसाः कवलं गृह्णन्त एव केवलभाजः सञ्जाताः, एवं एकाधिकपञ्चशततापसाः खामिनो महावीरस्य समवसरणं दृष्ट्वा केवलभाजः सञाताः, एवं एकाधिकपञ्चशततापसा भगवद्वाणीं श्रुत्वा केवलभाजो जाताः, एवं त्रिभिरधिका तापसानां पञ्चदशशती सर्वाऽपि केवलभाग जाता। तां च लात्वा खामिनं प्रदक्षिणीकृत्य तापसाः केवलिनः केवलिपर्षदि गताः । गौतमो भगवन्तमभिवन्द्य तान् नवदीक्षितान् ज्ञात्वा भगवद्वन्दनामामन्त्रयति । भोः तपखिनः ! अत्रागत्य भगवन्तं वन्दध्वं, तदा भगवता प्रोक्तं-गौतम ! केवलिनां आशातनां For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy