________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
श्रुत्वा प्रतिबुद्धा सती द्रव्येण महोत्सवं कृत्वा भगवत्पावें दीक्षां जग्राह । तस्याः सार्थे बहुभिलोकैः प्रव्रजितं-IN बहवः श्रावकाः सञ्जाताः । इत्थं द्वितीये समवसरणे चतुर्विधसङ्घस्य स्थापना, प्रधमे समवसरणे सङ्घस्थापना
-अकम्पितः-"नह वै प्रेत्य नरके नारकाः” इत्यादिवेदपदैः नारकाणामभावं भावयति । परं सा तस्य भावना मिथ्या । यतो वेदे | एव उक्तम्-"नारको वै एष जायते यः शूद्रान्नमनाति” ततो वेदे एव नारकसत्ता संज्ञापिता, "नह वै” इत्यादिश्रुतिस्तु नारकाणां शाश्वततां निषेधति, न पुनरभावम् ॥ । ८-अचलभ्राता-"पुरुष एवेदं निं सर्वम्" इत्यादिवेदवाक्यैः पुरुषेतरविषये संशयं करोति, परंतु अयं श्रीअग्निभूतिबोधनवद् बोध-1 नीयः । तयोः समानशङ्कासमाधानत्वात् ॥ | ९-मेतार्य:-इन्द्रभूतिसंशयोक्तश्रुतिवाक्येन परभवं संदेग्धि, स च तदुक्तसमाधानेनैव संबोधनीयः॥ । १०-प्रभासः-"जरामर्य वा यदग्निहोत्रम्” इत्यादिवेदपदैः निर्वाणविषये संशयं विदधाति । स एवं प्रत्येति, यदनया श्रुत्या सर्वदा एव अग्निहोत्रविधिर्विहितः । सा च मोक्षाभावे एव घटते, ततोऽनया एवं ज्ञायते-मोक्षो नास्त्येव । परं तयुक्तम् । यतो बेदे एव निर्वाणसूचकवाक्यानि यथा-"द्वे ब्रह्मणी वेदितव्ये” इत्यादि, अत्र एकेन ब्रह्मणा निर्वाणं प्रख्यापितम् । “जरामर्य” इत्यादिश्रुतिसंगतिरेवम्-तत्र
'ब' शब्दः 'अपि' अर्थे । अतो अग्निहोत्रम् , अन्यदपि च कुर्यात् । ततो न दोषः । यः स्वर्गार्थी स अग्निहोत्रं कुर्यात् , यश्च निर्वाणप्रार्थी Nस अन्यदपि कुर्याद् वावज्जीवमिति न दोषः ॥
For Private and Personal Use Only