SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बता । इन्द्रभूतेर्दीक्षां श्रुत्वा अग्निभूत्यादयो यथा आगतास्तथा संशयं छित्त्वा भगवता प्रतिबोधिताः । एवं एकादश १ अन्येषां गणधराणामेवं संक्षेपतो वादः-१-अग्निभृतिः स च एवं संदेग्धि-"पुरुष एवं इदं निं सर्व यदू भूतं यच भाव्यम्" इत्यादि अनया श्रुत्या इदं सकलं पुरुष एव प्रतीयते, कर्म-ईश्वरादिकं च प्रतिषिध्यते, ततो नास्ति कर्मादिकम् , एवम् अर्थ स करोति । स च अर्थस्तस्याऽयुक्तः । सा श्रुतिः केवलं पुरुषप्रशंसापरायणा केवलं पुरुषं स्तौति, नान्यमर्थ निषेधति, यथा “जले विष्णुः, स्थले विष्णुः” इत्यादिस्तुतिः केवलं पुरुषोत्तमविष्णुस्तुतिपरायणा नान्यं घट-पट-कटादिकं निषेधति, एवमियमपि श्रुतिः केवलं वर्णनवादपरायणा न कर्मादिक निषेधति, ततस्तया श्रुत्या कर्मसंदेहो न कर्तव्यः, प्रत्युत "पापः पापेन कर्मणा” इत्यादिवेदवाक्यैः कर्मवादः प्रख्याप्यते एव इति ॥ । | २-वायुभूति:-"विज्ञानघन” इत्यादिपूर्वदर्शितवेदवाक्येन अस्य संदेहः-जीव एव शरीरम् , शरीरमेव वा जीवः, किंतु देहाद् भिन्नः | कोऽपि जीवो नास्ति । स चाऽस्य अयुक्तः-कारणानुरूपमेव कार्य जायते इति प्रवादः सर्वत्र प्रसिद्धः । यदि भूतनिमित्तो जीवः स्वीकियते, तदा सोऽनुभूतोऽपि प्रवादः विनश्येत । कथमिति चेद्, उच्यते-ज्ञानममूर्त, भूतानि मूर्तानि, ततो नहि तयोः कार्यकारणभावो भवि-| तुमर्हति । अतो ज्ञानकारणान्यथानुपपत्त्या देहाद् भिन्नः एव समस्ति जीवः । तत्प्रतिपादकवेदवाक्यं तु पूर्ववदेव ।। ३-व्यक्तः-अस्य एवं शङ्का-सा च "स्वप्नोपमं वै सकलं” इत्यादिवेदवाक्यैः संजाता । स एवं प्रलपति, सर्व स्वप्नतुल्यमेतत् , अतो | नास्ति किंचित्-सर्व शून्यमेव । सा च तस्य मृषा, यत इयमपि श्रुतिः न सर्वाभावं प्रतिपादयति, किन्तु वैराग्यवर्धनार्थं सर्वेषामनित्यतामेव | वेदयति । वेदेऽपि “ पृथ्वी देवता, आपो देवताः” इत्यादिवाक्यानि सन्ति भूतादिसत्ताप्रतिपादकानि । अतस्तस्यायं संशयो न युक्तः ॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy