________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१४॥
इति पदं श्रुत्वा विचारित-यदि जीवा उत्पद्यन्ते एव तदा जीवगणः परिमितं क्षेत्रं बरीभरीत्येव । तदा पुनःला | कल्पद्रुम पृष्टवान् तदा भगवान् आह-विगमेह वा-विनश्यन्ति । उत्पद्यन्ते, विनश्यन्ति च इति पदं श्रुत्वा पुनर्विचारितं
कलिका तदा जगत् रिक्तं भवेत् इति पुनः पृष्टवान् किं तत्त्वं तदा स्वामी प्राह-किंचि य धुए वा किंचित् कालं ध्रुवं तिष्ठ
वृत्तियुक्त. न्ति-उत्पद्यन्ते, विनश्यन्ति, किंचित्कालं तिष्ठन्ति-उत्पत्तिविनाशस्तु पुद्गलधर्मः, ध्रुवत्वं तु जीवधर्मः । इयं ।
व्याख्या. जगतः शाश्वती स्थितिरस्ति-जीवः१, अजीवः२, धर्मः३, अधर्मः४, लोकाकाशः५, पुद्गलः ६, एतेषां षडद्रव्याणां आवर्तपरावर्तनव्यवहारो भवति-इतस्ततो भ्रमन्ति । एतया त्रिपद्या जगत्वरूपं इन्द्रभूतिना ज्ञातं पुनदृष्टान्तश्च भगवता त्रिपद्याः दर्शितः । यथा एकः कश्चिद् राजा, तस्यैकः पुत्रः, पुत्री च वर्तते, पुच्या राज्ञः प्रोक्तं मां । सुवर्णस्य घटं कारयित्वा देहि, तदा राज्ञा पुत्र्यै स्वर्णघटो दत्तः । तदा पुत्रेणोक्तम्-तात ! मह्यं सौवर्णमुकुट घटं भक्त्वा देहि, तदा राज्ञा घटं भक्त्वा पुत्राय मुकुटो दत्तः, तदा पुत्र्याः विषाद उत्पन्नः, पुत्रस्य हर्षः समुत्पन्नः, राज्ञस्तु न हर्षों न च विषादः। एवं संसारस्य स्थिति:-एकः उत्पद्यते, एको विनश्यति, पुद्गलस्य विनाशः, उत्पत्तिश्च, जीवास्तु यावन्तो वर्तन्ते तावन्त एव वर्तन्ते न च आधिक्यं न च न्यूनत्वं । घटो विनश्य मुकुटो भवति,
॥१४॥ मुकुटो विनश्य घटश्च, वर्णद्रव्यस्य न हानिन वृद्धिः, तेन राज्ञो न हर्षो न च विषादो भवति एवं तत्त्वं परिज्ञाय अन्तर्मुहूर्तमध्ये एकादश अङ्गानि, दृष्टिवादश्च एवं द्वादशाङ्गी कृता । गौतमनामेति नामस्थापना स्वामिना विहि
For Private and Personal Use Only