________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नघन एव एतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येव अनु विनश्यति, न प्रेत्य संज्ञा अस्ति"इति जीवस्य अभावः ।। अथ पुनर्जीवस्थापनवेदवाक्यानि-"सर्वैः अयं आत्मा ज्ञानमयः, ब्रह्मज्ञानमयः, मनोमयः, वाग्मयः, कायमयः, चक्षुर्मयः, श्रोत्रमयः, आकाशमयः, वायुमयः, तेजोमयः, अम्मयः, पृथ्वीमयः, हर्षमया, धर्ममयः, अधममयः, दददमयः" इति। पुनर्यथाचारित्रः तथा भवति, साधुकारी साधुर्भवति, पापकारी पापो भवति । “पुण्यः | पुण्येन कर्मणा भवति, पापः पापेन भवति" यजुर्वेदोपनिषदि ऋचः सम्पूर्णाः । हे इन्द्रभूते! त्वया वेदपदानि अधीतानि तथाऽपि वेदपदार्थ न जानासि । जीवोऽयं सर्वशरीरव्यापी शरीरात् पृथक्, यथा दुग्धे घृतं, तिलेषु तैलं, काष्ठेषु अग्निः, पुष्पेषु सुगन्धः, चन्द्रकान्ते अमृतं, यथा एते पदार्थाः सर्वव्यापिनः पृथगपि वर्तन्ते तथा अयं |देही देहश्च अत्र सन्देहो नाऽस्ति । ददद-दमो १ दया २ दानं ३ एतद् दकारत्रयं वेत्ति स जीव एव, एतद् दकारत्रयं जीवखरूपमेव इति प्रतिबोधितः इन्द्रभूतिः पञ्चशतच्छात्रःसह प्रभोः पार्श्व दीक्षां जग्राह । भगवता 'करेमि भंते! सामाइयं' इति उच्चारणं कारापितं। दीक्षां गृहीत्वा खामिनं पृष्टवान्-किंतत्त्वं-उप्पजेइ वा-उत्पद्यन्ते
| क्रियते तदा तद् ज्ञानं विनश्यति, न च सा पूर्वसंज्ञा वर्तते अत उच्यते विज्ञानघन एतेभ्यः भूतेभ्यः उत्पद्य, तानि एव अनु विनश्यति, ततो नानया श्रुत्या आत्मा निषिध्यते । प्रत्युत अन्याऽपि श्रुतिरस्ति जीवसाधिका-"सर्वैः अयं आत्मा ज्ञानमयः” इत्यादि ।
For Private and Personal Use Only