SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsun Gyanmandir www.kobatirth.org कल्पसूत्र ॥१४॥ कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या. तदा लोके मम निन्दा भवेत् । अग्रे वादव्यवहारोऽपि दुष्करस्तर्हि इतो व्याघ्र इतस्तटी अयं न्यायः अत्रागतः। कश्चित्कीलिकार्थ सौधं स्वनति, कश्चित् ठिक्करिकार्थं कामकुम्भं स्फोटयति । एतादृशानि उपख्यानानि मिलितानि | इति चिन्तयन्नपि साहसं विधाय सोपानेषु आरोहति तदा स्वामिना स इन्द्रभूतिः एतादृशान् संकल्पान् कुर्वाणो दृष्टस्तदा भो इन्द्रभूते ! कुशलमस्ति इति नामोचारणपूर्व अभिवादितः सन् मनसि चिन्तयामास-असौ मम नाम अपि जानाति । अथवा मम नाम अत्र को न जानाति ? अयमपि मत्तः सकाशाद्यं कृत्वा मिष्टं वाक्यं ब्रवीति, जानाति-मया सह असौ बादं न करोति, परं अस्य मिष्टवाक्याहं प्रसन्नो भवामि, यदा अयं सर्वज्ञोऽस्ति तदा मम मनःसन्देहं भक्षयति, अस्याऽहं शिष्यो भविष्यामि तावत् श्रीवीरेण प्रोक्तं हे इन्द्रभूते ! तव मनसि अयं सन्देहो वर्तते-जीवोऽस्ति नवा।जीवो वर्तते एव वेदवाक्यैरेव ज्ञापितः। वेदवाक्यानि यथा-"विज्ञा| १ इन्द्रभूतेः विशेषस्त्वयम् वेदपदानि च "विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तानि एव अनु विनश्यति, न प्रेत्यसंज्ञाऽस्ति" इति । त्वं तावत् एतेषां बेदपदानां अर्थमेवं करोषि-यद् विज्ञानघनो गमनादिचेष्टावान आत्मा, स च एतेभ्यो भूतेभ्यः पृथिवी-जलादिभ्यः समुत्पद्य मद्याङ्गेभ्यो मदशक्तिरिव, ततस्तानि भूतानि एवं अनु चिनश्यति जीवः-तत्रैव विलयं याति जले बुहुद् इव ततो भूतव्य- तिरिक्तस्य जीवस्य अभावाद् नास्ति पुनर्जन्म । परमयुक्तोऽयमर्थः । शृणु सत्यमर्थम्-विज्ञानघनो ज्ञानसमुदायः स च केनचित् प्रकारेण पृथिवी-जलादिभूतगणं समाश्रित्य एव उत्पद्यते-यथा घटोऽयम् , जलमिदम् , वायुरयम् इत्यादि । पुनश्च यदा भूतगणो नेत्रादितो दूरी-1 ॥१४॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy