SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विरुद्धानि शृण्वन् समवसरणं प्राप्त इन्द्रभूतिः । तदा भगवद्वाणीं श्रुत्वा चिन्तयति किं समुद्रो गर्जति, किं गङ्गायाः प्रवाहो वा नदति, अथवा ब्राह्मणो वेदध्वनिः इति विचारयन् इन्द्रभूतिः समवसरणस्य प्रथमे सोपाने चरणे दत्ते खामिनं दृष्ट्वा अचिन्तयत् किं एतादृशपञ्चवर्णरूप्यस्वर्णरत्नमयवप्रत्रये विराजमानः, छत्रत्रयेण शोभमानः, सिंहासने स्थितः, देवेन्द्रैः स्तूयमानः, देवाङ्गनाभिर्गुणवृन्दं गीयमानः कोऽपि वादी अद्य यावन्न दृष्टः, वादिनः बहुशोऽपि दृष्टाः परं न कश्चित् एतादृशो दृष्टः, तदा किमयं ब्रह्मा, किमयं विष्णुः, किमयं रुद्रो वा, किमयं सयौं वा, चन्द्रो वा, गणपतिर्वा एवं चिन्तयन् पुनरपि तेषां लक्षणैः वियुक्तं दृष्ट्वा तत्र तदा देवेषु सन्देहं कुर्वन् विमलस्वभावं वीतरागं सर्वोत्कृष्टरूपं संवीक्ष्य नवीनोऽयं देवस्तस्माद्देवाधिदेवोऽयं सर्वज्ञोऽयं भविष्यति । अयं एतादृश एव दृश्यते, अनेन सह वादं कर्तुं अहं अत्रागतस्तन्मया सम्यक् न कृतं एतावद्दिनपर्यन्तं यद् यशोऽर्जितं तद् यास्यति, अहं जानन् अपि अद्य अज्ञानी सञ्जातः । अथ चेत् अनागत्य एनं दृष्ट्वा पश्चाद्रजामि पड्भाषावल्लीमूल, वादिवादमस्तकशूल, वादिगोधूमघरट्ट, मर्दितवादिमरट्ट, वादिकन्दकुद्दाल, वादिलोकभूमिपाल, वादिमौनशस्त्रागार, वादिअन्नदुर्भिक्षकार, वादिगजसिंह, वादीश्वरलीह, वादिहृदयसाल, वादियुद्धभाल, वादिवेशाभुजङ्ग, शब्दलहरीतरङ्ग, सरस्वती भण्डार, चतुर्दशविद्याभर्तार, षड्दर्शनगौगोपाल, रञ्जितानेकभूपाल, सखीकृतवृहस्पति, निर्जितशुक्रमति, कूर्चीलसरस्वती, प्रत्यक्षभारती, जितानेकवाद, सरस्वतीलब्धप्रसाद । For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy