SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥१३९॥ www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir रत्नानां कपिशीर्षाणि २, रत्नानां वप्रस्तत्र मणिमयानि कपिशीर्षाणि ३ । अशोकवृक्षस्य छाया समवसरणाग्रे सहस्रयोजनप्रमाणा, इन्द्रध्वजः इत्यादि ऋद्धिः । पुनञ्चतुर्निकाय देवानां गमनागमनं, देवाङ्गनानां गीतगानं इत्यादिप्रभावं दृष्ट्वा ब्राह्मणैर्ज्ञातं सत्योऽस्ति यज्ञस्य प्रभावः - देवाः साक्षादत्र समायान्ति । एवं पश्यतां एव ब्राह्मणानां यज्ञपाटकं त्यक्त्वा यत्र नगराद्वहिः श्रीवर्द्धमानखामिनः समवसरणमस्ति तत्र ययुः । सर्वेऽपि देवाः मुखेन एवं जल्पन्तः सर्वज्ञवन्दनाय शीघ्रं गम्यतां गम्यताम् । इन्द्रभूतिरेतादृशीं देवानां मुखेभ्यो वाणीं श्रुत्वा मनसि अमर्षं आनीय चिन्तयति स्म । सर्वज्ञस्तु अहं एवाऽस्मि, मत्तः परः कोऽस्ति अत्र सर्वज्ञः ? लोकास्तु सर्वदा मूढा भवेयुरेव । परन्तु देवा अपि मुह्यन्ते, ये देवाः मां न वन्दन्ते ते मां सर्वज्ञं विहाय अन्यत्र भ्रमन्ति, अथवा कश्चिदत्र ऐन्द्रजालिकोऽयं भविष्यति । इन्द्रजालिकविद्यया सर्वान् लोकान् देवान् संमोहयति, परं अहं अस्य वृथा अभि मानिनो गर्व उत्तारयिष्यामि, मां विना अस्य गर्वोत्तारणे कोऽपि समर्थ नास्ति इति विचिन्त्य प्रचलित इन्द्रभूतिः, साथै पश्चशतविद्यार्थिनः खगुरोः इन्द्रभूतेः विरुदवृन्दं जल्पन्तो बभूवुः । उत्तालतया महाडम्बरेण समवसरणाय आयान्ति । विरुदवृन्दं यथा - सरखतीकण्ठाभरण, वादिविजयलक्ष्मीशरणं, इत्यादीनि छात्रवृन्दमुखेभ्यः 1 १ ज्ञातसर्वपुराण, वादिकदलीकृपाण, पण्डितश्रेणिशिरोमणि, कुमतान्धकारनभोमणि, जितवादिवृन्द, वादिगरुडगोविन्द, वादिघटमुद्गर, वादिघूकभास्कर, वादिसमुद्रअगस्ति, वादिवृक्षहस्ति, वादिमुखभञ्जन, वादिवादखण्डन, वादिसिंहशार्दूल, वादिवातविक्षिप्तवादतूल, For Private and Personal Use Only कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ५ ॥१३९॥
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy