________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
Aष्ठापनं न भवति । अत्र तु यत्पञ्चसमितिकथनं तत् सूत्रपाठरक्षणार्थम् । पुनः स्वामी कीदृशोऽस्ति ? गुप्तित्रयेण
गुप्तः । मनोवचनकायानां कुव्यापारान्निषेधनं गुसिस्तया युक्तः । अयमेवपाठः पुनः पाठान्तरेणास्ति-"मणस|मिए, वयसमिए, कायसमिए," मनोवचनकायानां सम्यक् प्रकारेण प्रवर्तनं समितिरुच्यते, तया समित्या युक्तः । पुनः खामी गुप्तेन्द्रियः त्रयोविंशतिविषयेभ्य इन्द्रियाणां निवारणं तेन युक्तः, गुप्तब्रह्मचर्यः नववाटिकाभिः शीलसंरक्षकः, क्रोधमानमायालोभरहितः, शान्तः, प्रशान्तः-प्रकर्षेण शान्तः, उपशान्तः, यस्मिन् समीपे आगतेऽपि क्रोधादीनां उपशमो भवति, आश्रवनिरोधात् निराश्रवः, अममः ममत्वरहितः, अकिञ्चनः द्रव्यरहितः, बाह्याभ्यन्तरग्रन्थिरहितः, निर्लेपः-यथा कांस्यपात्रे जलं न लगति तथा भगवन्तं लेहो न लगति । यथा शङ्ख रागः कश्चिन्न लगति तथा भगवतः कस्यापि न रागोऽस्ति, तथा केनापि सह भगवतः द्वेषोऽपि नास्ति । पुनर्यथा जीवस्य गतिः केनापि रोढुं न शक्यते तथा भगवतो विहारोऽपि केनाऽपि न रुझ्यते । यथा आकाशो निराधारो निरालम्बस्तथा भगवान् कस्यापि आधारं न वाञ्छति । यथा वायुः कुत्रापि न स्खलति तथा भगवानपि अप्रतिबद्धविहारी। भगवान् शरत्कालस्य जलवन्निर्मलहृदयः । यथा कमलं कदमे निष्पन्न | जलेन वर्द्धितम् , अनुक्रमेण उभयोरपि उपरिष्टात् अलिप्तं सत् तिष्ठति तथा खामी संसारे उत्पन्नः भोगजलेन वर्धितः अनुक्रमेण उभाभ्यां पृथक् तिष्ठति । भगवान् परीषहसहने सिंहवत् शूरः, समुद्रवद् गम्भीरः,
Tieliiliilne
For Private and Personal Use Only