SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिग्रहे गृहीते चत्वारो मासा ययुः । तस्मिन् समये कौशाम्ब्या अधिपेन शतानीकेन चम्पा नगरी भग्ना । दधिवाहनराजा नष्टः, दधिवाहनस्य राज्ञी धारिणी, चन्दनबाला पुत्री वर्तते। द्वे अपि केनचित्पदातिना बन्दितया गृहीते, राज्ञी जिह्वां खण्डयित्वा मृता, चन्दना धनश्रेष्ठिनः विक्रीता, श्रेष्ठिना गृहे आनीता । श्रेष्ठिगृहे मूलानानी स्त्री वर्तते। तया चन्दना दृष्टा, तदा ज्ञातं अहं वृद्धा जाता, श्रेष्ठी अनया भोग भोक्ष्यति इति ज्ञात्वा | नाएकदा श्रेष्ठिनि कुत्रचित्कार्यगते सति पश्चात् चन्दनां गृहीत्वा, मस्तकं मुण्डाप्य, पादयोः शृङ्खला परिधाप्य,IN एकस्मिन् अपवरके क्षिप्त्वा,द्वारेतालकं दत्त्वा, खयं मूला पितृगृहे गत्वा स्थिता। चतुर्थे दिने श्रेष्ठिना शुद्धि कुवेता अपवरकाद् निष्कासिता । तदा मुण्डिता, शृङ्खलासहिता दृष्टा। तदा श्रेष्ठिनोक्तं पुत्रि! यावत् लोहकारं आहूय । त्वत्पादशृङ्खलां खण्डयामि तावन्मुखं प्रक्षाल्य कुल्माषबक्कुलाः सूर्पकोणके स्थिताः सन्ति, एतान् भुङ्ग इत्युक्त्वा |श्रेष्ठी गतः । पश्चात् चन्दना जानाति-अष्टमस्य मम अद्य पारणं वर्तते, चेत् कश्चित् साधुरायाति तदा तस्मे दत्त्वा पश्चाद् अहं भुने इति चिन्तयन्त्याश्चन्दनायाः अग्रे तृतीयप्रहरे एव खामी भिक्षायां भ्रमन् समागतः। सर्वोऽप्यभिग्रहः पूणे, परं चन्दनाया: अश्रु न दृष्टं। तदा भगवान् आहारं न जग्राह । यदा खामी आहारं विना एव निःसृतः तदा चन्दना रुरोद । अहो! अहं मन्दभाग्या, अद्य खामी अपि मम हस्तात्कुल्माष[बकुलान् न जग्राह । तद्रोदनं श्रुत्वा चक्षुषि अश्रु दृष्ट्या खामी व्याघुट्य कुल्माषबक्कुलान् जग्राह । दवः पश्चाद क.स. २३ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy