________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्रं ॥१३२॥
गृहे गृहे छिद्राणि पश्यति । यदा जनाः पृच्छन्ति तदा वदति मगुरुर्निशायां चौर्यार्थं समेष्यति । तेन छिद्रं कल्पद्रुम | पश्यामि पश्चाद् जनास्ताडयन्ति एवं कृत्वा जनेभ्यस्ताडनां कारयति, तदा भगवता अभिग्रहो गृहीतः, यावद् कलिका उपसर्गनिवृत्तिनं भवेत् तावदाहारं न गृह्णामि, एवं षण्मासं यावत् सङ्गमेन उपसर्गाः कृताः । इन्द्रेण स न वृत्तियुक्तं. निषिद्धः, इन्द्रेण इति ज्ञातं चेद् एनं अहं निषेधयिष्यामि तदा अयं वक्ष्यति-अहं भगवन्तं अक्षोभयिष्यं परंग
व्याख्या. भगवताऽहं निषिद्धः । तेन सङ्गमः इन्द्रेण न निषिद्धः, परं यावत् खामिनं स उपसर्गान् अकरोत् तावद् इन्द्रो निरुत्साहोऽभूत् । अन्ये देवाः देवाङ्गनाश्च सशोका बभूवुः । षण्मासान्ते स देवः स्वयमेव खिन्नो भूत्वा वर्गमागतस्तदा इन्द्रेण वर्गानिष्कासितः । स खदेवाङ्गनां लात्वा मेरुचूलायां गतः। एकसागरोपमायुष्कोऽस्ति । एवं दशवर्षमध्ये बहवः उपसर्गा उत्पन्नाः-सोढाः । पाण्मासिकस्य पारणं वज्रग्रामे गोपालकस्य गृहे परमान्नेन |भगवतो जातं । देवैस्तत्र महिमा कृता । सर्वैर्देवैः इन्द्रादिभिः स्वामिनः सुखतपः-पृच्छा कृता । तत एकादशीचतुर्मासी वैशाल्यां स्थितः । तदा सुंसुमारपुरे चमरेन्द्रोत्पातः सञ्जातः । अस्मिन् अवसरे कौशाम्बीनगर्या | पोषवदिप्रतिपद्दिने खेच्छयाऽभिग्रहो गृहीतः-यदा राज्ञः पुत्री बन्दिमध्ये पतिता, पादयोः शृङ्खलया झटिता,
॥१३२॥ मस्तके मुण्डिता, त्रिदिनं यावत् क्षुधया क्षामा, रुदती, अश्रुपातं कुर्वती, चरणयोरन्तराले देहलीं कृत्वा एतादृशी सती प्रहरद्वयादनन्तरं कुल्माषयकुलान् दद्यात् तदा पारणं करोमि इत्यभिग्रहो भगवता गृहीतः। एवं
For Private and Personal Use Only