SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रोच्यन्ते - प्रथमं धूलिवृष्टिः १, पञ्चात् वज्रमुखीकीटिकाभिः शरीरचुण्टनं २, वज्रमुखैर्दशकैण्टनं ३, घृतवल्लिकीटिभिश्रुण्टनं ४, वृश्चिकविकुर्वणं ५, सपैंशनं ६, नकुलैर्नखमुखैर्विदारणं ७, उन्दुरैर्दशनं ८, करिकरिणीभ्यां उल्लालनं ९, दन्तपादाभ्यां मर्दनं १०, पिशाचरूपैर्भापनं ११, व्याघ्रैः फालं विस्तार्य भापनं १२, माता आगत्य जल्पतिपुत्र ! किमर्थं दुःखी भवसि अहं तव जननी समागताऽस्मि त्वं मम साथै समागच्छ त्वां सुखिनं करिष्यामि इति १३, कर्णयोः तीक्ष्णमुखपक्षिपञ्जरबन्धनं १४, पचणश्चाण्डाल आगत्य परुषवचनैस्तर्जयति १५, उभयोः पादयोरुपरि क्षैरेयीहण्डिकाम् आरोप्य अग्निं प्रज्वाल्य क्षैरेयीपाचनं १६, खरकठोरवायुविकुर्वणं १७, कलङ्कलिकावता वायुना शरीरं उत्पाट्य उत्पाट्य भूमौ पातनं, चक्रवायुः चक्रवत् शरीरं भ्रामयति १८, सहस्रभारप्रमाणलोहगोलकस्य भगवन्मस्तकोपरि मोचनं तेन कटीं यावत् भूमौ क्षुभनं जातम्, अन्यस्य शरीरं चेद् भवति तदा चूर्ण जायते परं तीर्थङ्करशरीरत्वात् न किमपि जातं १९, विंशतितमश्च अयं उपसर्गः - रात्रौ सत्यामपि प्रभातं जातं कश्चिद्वदति आर्य ! प्रभातं जातमस्ति विहारं कुरु, किं अद्यापि स्थितोऽसि, तदा खामी ज्ञानेन जानाति - रात्रिरस्ति, किञ्चिद् देवचरित्रं दृश्यते । पुनर्देवः खऋद्धिं विक्कुर्व्य स्वामिनं प्राह- हे आर्य ! वरं याचय, स्वर्गं चेत् प्रार्थयसि तदा स्वर्गं ददामि, देवाङ्गनां ददामि, इति श्रुत्वाऽपि न क्षुब्धो भगवान्, एते (२०) विंशतिरुपसर्गाः कृताःएकस्यां रजन्यां विहिताः । तदनन्तरम् ग्रामे आहारम् अशुद्धं करोति, चौरस्य कलङ्कं ददाति, कुशिष्यरूपं कृत्वा For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy