SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥१३३॥ व्यानि कृतानि । सार्द्धद्वादशकोटी १२॥ दीनाराणां वृष्टिबभूव । चन्दनायाः शिरसि नवीना वेणी देवैः रचि कल्पद्रुम ता। शृङ्खला एव नूपुरे समाते । खामी आहारं गृहीत्वा जगाम । पश्चात् श्रेष्टी समाजगाम । नगरस्याऽधिपस्या कलिका |ऽपि शुद्धिर्बभूव । इन्द्रेण जनसमक्ष आगत्य उक्तम्-यदा खामिनः केवलज्ञानं उत्पत्स्यते तदा एतद् धनं वृचियुक्त. चन्दनादीक्षासमये महोत्सवार्थ समेष्यति । राजा चन्दनां लात्वा अन्तःपुरे आनीतवान् । राज्या सह चन्द- व्याख्या. नायाः सम्बन्धोऽस्ति-भगिन्याः पुत्रीति उपलक्ष्य रक्षिता । एवं भगवतः पञ्चभिर्दिनैः ऊनं पाण्मासिकं अभूत पारणकं । चन्दनया इत्थं कारितम् । द्वादशीचतुर्मासी चम्पायां कृता १२ । ततः पारणके षण्मानिकग्रामे बहिः कार्योत्सर्गस्थितस्य भगवतः त्रिपृष्ठभवे शय्यापालकस्य कर्णे वपु प्रक्षिप्तम् अभूत् । स शय्यापालको मृत्वा गोपालकः सञ्जातोऽस्ति । तेन कर्णयोः कांस्यशलाका निखाता। उपरितः छित्त्वा प्रच्छन्नीकृताऽस्ति । भगवान् । विहारं कुर्वन् पापायां समागतः । तत्र सिद्धार्थस्य वणिजो गृहे आहारार्थ विहरन खरकवैयेन दृष्टः । स्वामिनः कर्णयोः कांस्यशलाकां दृष्ट्रा यदा बहिः कार्योत्सर्गे स्थितः तदा सन्दंशकेन गृहीत्वा बलागुक्षशाखायां बद्धा समकालं वृक्षशाखा त्यक्ता, अनया रीत्या स्वामिनः कर्णयोः शलाका खरवैयेन निष्काशिता । तदा भगवता ॥१३३॥ महत्या वेदनया पूत्कारः कृतः। मनसि वेदना सोढा, परं कायव्यापारेण पूत्कृतिरभूत् । संरोहिण्या औषध्या कर्णयोः परिचर्या कृता । गोपालकः ससमनरके गतः। खरकवैद्यः पञ्चमदेवलोकं गतः। अथ सर्वोपसर्गाणां For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy