________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सीत् । तयोः पुत्रो जातोऽस्ति । तदा ताभ्यां दम्पतीभ्यां नवीनं प्रासादं कारितमस्ति । नित्यं पूजां कुरुतः। एकदा तौ पूजां कर्तुं यदा गच्छतः तदा एव स्वामी तन्त्र मार्गे स्थितोऽस्ति । इन्द्रो भगवन्महिमार्थ श्रेष्ठिनं प्रत्यवादीत्-भोः श्रेष्ठिन् ! यस्य त्वया पूजा क्रियते तं त्वां प्रत्यक्षं दर्शयामीत्युक्त्वा श्रेष्ठिनं भगवतः पादयोर्नामयति स्म । श्रेष्ठी अपि भगवन्तं भावशुद्ध्या पूजयामास । ततो मल्लिजिनप्रतिमां पूजयामास, ततो राजगृहे अष्टमचतुर्मासी स्वामी स्थितः । ततो अनार्यदेशे नवमी चतुर्मासी स्थितः। तत्र बहवो युपसर्गाः बभूवुः । ततः सिद्धार्थपुरात् एकदा कूर्मग्राम स्वामी प्रस्थितः, मार्गे एकं तिलस्याङ्कुरितं दृष्ट्वा खामिनं पप्रच्छ-खामिनोक्तम्सप्त पुष्पजीवाः भविष्यन्ति एकत्वेन । ते च जीवास्तिलखेन भविष्यन्ति । स्वामिवचनं अन्यथा कर्तुं स तिल उन्मूलितोऽपि वृष्टियोगात् गोक्षुरेण पृथिव्यां क्लिन्नो निष्पन्नः । व्याधुट्यमानेन गोशालेन पृष्टं क स तिलः? खामिना स एव तिलो दर्शितः । स्वामिना तत्स्वरूपं कथितं च, गोशाल:-प्रत्ययं चकार-यद्भाव्यं तद्भवत्येव इति गोशालकमतम् । एकदा मगधदेशे राजगृहचम्पानगर्योरन्तराले गुबरामे कोशम्बीनामा कौटम्बिकोऽस्ति । तेन कौटम्बिना स्वकीयग्रामस्य पार्वे बहिर्धमता एको बालकः प्राप्तः, एकस्तत्र समीपस्थो ग्रामः कटकेन भन्नः, तत्रस्था लोका दशदिशं नष्टाः, तदा एका स्त्री पुत्रसहिता प्रणष्टा, स्त्री चौरः गृहीता, बालः पुत्रो रुदन् तेन कौशम्बिनामा कौटम्बिकेन गृहीतः, कौटम्बिकेन पुत्ररहितेन पुत्रीकृत्य स बालो वर्द्धितोऽनुक्रमेण यौवनं प्राप्तः।।
For Private and Personal Use Only