________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१३॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
स्थितः । एकदा कूपकसंनिवेशं गतः, हेरक इति कृत्वा गृहीतः, विजयाख्यपार्श्वनाथशिष्यया(ण्या) स्वामी मोचितः । ततो गोशालः पृथग भूतः । अथ यत्र यत्र गोशालो याति तत्र तत्र मार्यते, ततो गोशालश्चिन्तयति स्म। वरं स्वामिना एव सार्द्ध इति स्वामिनं मागयितुं लग्नः। स्वामी वैशाल्यां गतः । तत्र लोहकारशालायां स्थितः। तत्र बहुभिर्दिनैः लोहकारः शालायां आगतःस्वामिनं दृष्ट्वा मुण्डोऽयम्-अमङ्गलोऽयम्-इति कथयित्वा लोहघनेन हन्तुं प्रवृत्तः, तत इन्द्रेण स हतः । षण्मासान्ते गोशालो मिलितः । ततः खामी भद्रिकायां गतः, षष्ठी चतुमासी स्थितः, तदा अष्टमासं यावत् निरुपसर्गः, ततः सप्तमी चतुर्मासी आलभ्भिकायां देवकूले स्थितः, गोशालः तत्र बलदेवस्य प्रतिमामुखे लिङ्गं घर्षयति, ततः कुहितः। एकदा दन्तुरवरवधूहसनम्-अहो! देवे प्रसन्ने सदृशः संयोगो मिलितः-यथा अनयोः । तदा तैः कुहितः । एकदा बहुशालग्रामे शालवनोद्याने माघमासे प्रतिमया तस्थौ । तत्र तिपृष्ठभवे अपमानिता स्त्री सा कटपूतनाव्यन्तरी जाता, तया तापसीरूपं कृत्वा जलभृतजटाभिः अन्यदुःसहः शीतोपसर्गः चक्रे, तथापि प्रभु निश्चलं विलोक्य उपशान्ता स्तुतिं चकार । प्रभोश्च तं सहमानस्य षष्ठेन तपसा विशुद्ध्यमानस्य लोकावधिः उत्पन्नः । तदा शीतोपसर्गादिविघ्नोपशमे महिमा कृता देवैः । एकदा पुरमताले नगरे गतः, शकटमुखोद्यानस्य पुरस्य च अन्तराले प्रतिमया तस्थौ । तदा तत्र नगरे वग्गुरिश्रेष्ठी, तस्य भार्या सुभद्रा, ताभ्यां उद्यानस्थस्य श्रीमल्लिजिनस्य प्रासादं पुत्राय नवीनं मानितमा
॥१३०॥
For Private and Personal Use Only