________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृता । तत्र गोशालको मङ्गलीपुत्रः भिक्षा मार्गयन् समागतः, भगवतः पारणमहिमानं दृष्ट्वा भगवन्तं एवं उक्त्वा पार्श्वे स्थितः-स्वामिन् ! अहं त्वत्-शिष्यो भवामि, स्वयमेव दीक्षां गृहीत्वा सार्थे भ्रमति । अथैकदा स्वामी कालेन तयोः अत्यन्तं प्रीतिर्जाता, एकदा तया आभीर्या विवाहे निमन्त्रितौ तौ दम्पती ऊचतुः, यदुत भो ! आवाभ्यां | आगन्तुं न शक्यते । परं यद्भवतां विवाहे युज्यते तद् अस्मद्गृहाद् ग्राह्यं, ततो व्यवहारिदत्तैश्चन्द्रोदयादिउपकरण-1 वस्त्राभरणधूपादिभिश्च स आभीरविवाहो अत्यन्तं उत्कृष्टो जातः, तेन प्रमुदिताभ्यां आभीराभ्यां अतिमनोहरी समा-| नवयसौ बालवृषभौ आनीय तयोः दत्तो, तौ न इच्छतः। बलाद् गृहे बद्धा तौ स्वगृहं गतौ । व्यवहारिणा चिन्तितं यदि इमौ पश्चात् प्रेषयिष्यते तदा खण्डिकरणभारोवहनादिभिर्दुःखिनौ भविष्यतः, इत्यादि विचिन्त्य प्रासुकतृणजलादिभिः तौ पोष्यमाणो वहनादिश्रमवर्जितौ सुखं तिष्ठत:, अन्यदा अष्टम्यादिषु कृतपौषधेन तेन श्रावकेण पुस्तकादि वाच्यमानं निशम्य तौ भद्रकी जातो, यस्मिन् दिने स श्रावक उपवासं करोति; तस्मिन् दिने तौ अपि तृणादि न भक्षयतः, एवम् तस्य श्रावकस्याऽपि साधर्मिकत्वेन अत्यन्तं प्रियौ जाती। एकदा तस्य जिनदासस्य मित्रेण |
तौ अतिबलिष्ठौ सुन्दरौ च वृषी विज्ञाय श्रेष्ठिनं अनापृच्छय एव भण्डीरवनयक्षयात्राय अदृष्टधुरौ अपि तथा वाहिती कायथा त्रुटितौ। आनीय तस्य गृहे बद्धौ । श्रेष्ठी तौ तदवस्थौ विज्ञाय साश्रुलोचनो भक्तमत्याख्याननमस्कारदानादि-|
For Private and Personal Use Only