________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं
॥१२८॥
| कल्पद्रुम कलिका बृचियुक्तं. व्याख्या.
ततःसुरभिपुरी प्रति गतः।भगवतो मार्गे गङ्गानदी नावा उत्तरतः त्रिपृष्ठभवेहतस्य सिंहस्य जीवो मुवा जातो नागकुमारः सुदाढनामा, पूर्ववैरेण नावं ब्रोडयन जिनदासश्राद्धस्य सम्बलकम्बलयोः वलीवर्दयोः जीवदेवाभ्यां स निवारितः। अथ द्वितीया चतुर्मासी स्वामिना राजगृहनगरे नालन्दपाटके वणकरशालायां मासक्षमणं कुर्वता पशुं गृहीत्वा पृष्ठे धावन् पादस्खलनात् स्वपशुप्रहारेण आर्तध्यानात् मृत्वा तृतीयभवे जातश्चण्डकौशिकः। स च प्रभु प्रतिमास्थं विलोक्य क्रुधा ज्वलन् सूर्य दृष्टा २ दृष्टिज्वालां मुमोच। तथापि भगवान् तथैव तस्थौ। ततो भृशं क्रुद्धो भगवन्तं ददंश । तथापि भगवन्तं अव्याकुलम् एव दृष्ट्वा भगवद्रुधिरं च क्षीरसहोदरं दृष्ट्वा “बुज्झ बुझ चण्डकोसिअ !" इति भगवद्वचनं श्रुत्वा जातजातिस्मृतिः प्रभुं त्रिः प्रदक्षिणीकृत्य अहो ! अहं करुणासमुद्रेण भगवता दुर्गतिकूपाद् उद्धृतः इत्यादि मनसा विचिन्तयन् वैराग्यभावाद् अनशनं कृत्वा पक्षं यावद् बिले मुखं प्रक्षिप्य स्थितस्तदा | लोकैः घृतादिविक्रायिकाभिघृतादिभिः पूजितो, ततः घृतगन्धागतपीपिलिकाभिर्भृशं पीड्यमानः प्रभुदृष्टिसुधावृष्ट्या सिक्तो समताभावेन मृत्वा अष्टमदेवलोके देवो जातः॥
१ तयोरुत्पत्तिः एवम्-मथुरायां साधुदासीजिनदासौ दम्पती परमश्रावको पञ्चमव्रते सर्वथा चतुष्पदप्रत्याख्यानं चक्रतुः, तत्र च एका आभीरी स्वकीय गोरसं आनीय साधुदास्यै ददाति, सा च यथोचितं मूल्यं ददाति, एवं च
॥१२८॥
For Private and Personal Use Only