SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir यावन्नित्यं व्युत्सृष्टकाया, त्यक्ततनुशुश्रूषः आसीत्, त्यक्तदेहोऽभूत्, ये केचित् उपसर्गा उत्पद्यन्ते-ते के उपसर्गाः? ये दिव्याः देवसंबन्धिनः, मनुष्यसंबन्धिनः, तिर्यगयोनिजाः । अनुलोमा देवाङ्गनानां नाटकप्रेक्षणाऽsलिङ्गनादिकाः।प्रतिलोमा अट्टहासादिसूचकाः, भयङ्कराः, तान् उपसर्गान् सत्येन मनसा सहते भयं नानयति, क्रोधाभावेन क्षमते, कस्याऽप्यग्रे दीनवाक्यं न ब्रूते, निश्चलकायेन अध्यासयति । अथ भगवता उत्तरचावालग्रामस्य पार्थे कनकखलनाम्नि वने चण्डकौशिकसर्पः प्रतिबोधितः । स च सपो मृत्वा ८ सहस्रारदेवलोके देवो जातः। ततो विहृत्य श्वेतम्बिकायां खामी गतस्तत्र प्रदेशी राजा केशिकुमारस्य श्रावकोऽस्ति, तेन भक्तिः कृता । १ स च सर्पः प्राग्भवे एकः कश्चित् महातपस्वी मासक्षमणपारणायां भिक्षार्थ भ्रमन पादेन प्रमादेन मण्डुकी | दूपयति स्म । सा च मण्डुकी पुरा कस्यचित्पादेन दूषिता वा साधोः पादेन दूषिता, परं तस्य पश्चाद् गामिना लघुशिष्येण दूषिता दृष्टा । यदा स साधुः स्वस्थाने समागतस्तदा लघुशिष्येणोक्तम्-स्वामिन् ! मण्डुकीविराधनायां मिथ्यादुष्कृतं दातव्यम् । तेन साधुना तद् वाक्यं न धृतम् । पुनः लघुशिष्येण संध्यासमये आलोचनाकाले स्मारितम् । साधुना |पुनर्न धृतं, लघुशिष्येण पुनः रात्रौ संस्थारकगाथासमये प्रोक्तम्।श्रुत्वा क्रुद्धस्य लघुशिष्यं मारणाय धावतो रात्री स्तम्भेन शिरो भग्नं। तद्वेदनाया मृत्वा नरकं ययौ। द्वितीयभवे तापसो जातः। तत्राऽपि स्वबने आगतान् राजकुमारान् त्रासयितुं For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy