SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं ॥१२७॥ तृणकारेण गृहीतम् , एवं द्वयोरपि दारिद्यं गतम् । ततः पश्चात् खामी अचीवरधारी जातः । अन्ये तीर्थकराः कल्पद्रुम सर्वेऽपि यावज्जीचं सचीवराः संजाता:-देवदृष्यवस्त्रसहिताः। अथ महावीरस्वामिनः प्रथमं पारणं कांस्यपात्रेसातकलिका तेन स्वामिनासपात्रधर्मो दर्शितः श्रमणो भगवान महावीरो द्वादशवर्षाणि षण्मासैः पञ्चदशदिनैश्च अधिकानि वृत्तियुक्त. व्याख्या. १ एकदा विहरतो भगवतः कदाचिद् गङ्गातटे सूक्ष्ममृत्तिकाप्रतिविम्बितपदपतिषु चन्द्र-ध्वज-अङ्कशादीनि लक्षणानि निरीक्ष्य पुष्यनामा सामुद्रिकश्चिन्तयामास-यदयं एकाकी कोऽपि चक्रवर्ती गच्छति, तत्र गत्वा अस्य सेवां करोमि यथा मम महानुदयो भवति इति त्वरितं पदानुसारेण भगवत्पार्श्वमागतो भगवन्तं निरीक्ष्य दध्यौ, अहो! मया वृथैव महता कष्टेन सामुद्रिकमधीतम् । यदि ईदृग्लक्षणलक्षितोऽपि श्रमणो भूत्वा ब्रतकष्टं समाचरति तदा सामुद्रिकपुस्तक जले क्षेप्यमेव, इतश्च दत्तोपयोगः शक्रः शीघ्र तत्राऽऽगत्य भगवन्तं अभिवन्द्य पुष्पं उवाच, भोः! भोः! सामुद्रिक ! मा विषीद सत्यमेवैतत् तव शास्त्रं यदयं अनेन लक्षणेन जगत्रयस्यापि पूज्यः, सुरासुराणां अपि स्वामी सर्वोत्तमसंपदाश्रयः तीर्थेश्वरो भविष्यति। किंच-"कायः खेदमलामय-विवर्जितः श्वासवायुरपि सुरभिः । रुधिरामिषमपि धवलं गोदुग्ध ॥१२७॥ सहोदरं नेतुः॥१॥” इत्यादीन्यपरिमितानि अस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं शक्यानि ? इत्यादि वदन् पुष्पं मणि-कनकादिभिः समृद्धिपात्रं विधाय शक्रः स्वस्थानं ययौ, सामुद्रिकोऽपि प्रमुदितः स्वदेशं गतः॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy