SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुष्कम् अपि नदीस्थानं खन्यते तत्र जलं निस्सरति, सामपि मरुस्थलं न जलाय भवति । तथा किम् अन्यकृपणानां याचनेन? इति स्त्रिया प्रेरितो ब्राह्मणो भगवत्समीपे आगत्य खदीनत्वं दर्शयित्वा भगवतःसमीपे धनं मार्गयामास । तदास्वामिना कृपां कृत्वा स्कन्धस्थदेवदृष्यवस्त्रस्याऽधू स्फाटयित्वा ब्राह्मणाय प्रदत्त-दानं दर्शितम् , सोऽपि ब्राह्मणः तद वस्त्रं लात्वा खनगरे समागत्य तूनकरान् दर्शयामास । तदा तैरुक्तम्-यदा एतद् वस्त्रं पूर्ण भवति तदाऽस्य लक्षदीनारमूल्यं समायाति, अर्धा विभज्य गृह्यते, तेन अस्य अपरम् अर्ध त्वया आनेतव्यम् । तत् श्रुत्वा स ब्राह्मणो भगवत्समीपे मार्गणार्थ नाऽऽयाति, मनसि लजते, इदानीम् एव मया स्वामी याचितः, वस्त्रार्ध गृहीत्वा अहम् आगतोऽस्मि, पुनरपि चेत् याचयिष्यामि तदा अतिलोभितया मम लज्जा यास्यति । एवं ज्ञात्वा स्वामिनः पृष्ठे २ भ्रमति । मनसि एवं जानाति चेत् कुत्रचित् भगवतः स्कन्धात् कदाचित् वस्त्रं पतिष्यति तदाऽहं लात्वा यास्यामीति। एवं चिन्तयता पृष्ठे भ्रमता तेन ब्राह्मणेन एकदा तद्देवदूष्याई स्वामिनः स्कन्धात् वातेनोड्डीय। उत्तरचावालग्रामपाधै स्वर्णवालुकानदीतटे बदरीवृक्षस्य कण्टकेन लग्नं पतितं दृष्टम् । त्वरितं ब्राह्मणो गृहीत्वा गृहाय चलितः। भगवता पश्चाद्विलोकितं मदस्त्रं कुत्र पतितं तदा कण्टकस्थाने पतितम् । तदा स्वामिना ज्ञातं मम पृष्ठे ये साधवो भविष्यन्ति ते कलहकाराः, डमरकराः, असमाधिकराः भविष्यन्ति । बहवो मुण्डा अल्पे श्रमणाः । ब्राह्मणेन तद्वस्त्रं तृणकारपाश्र्थात् तृणाप्य विक्रीय तदर्द्धमूल्यं अर्द्धलक्षदीनारद्रव्यं प्राप्तम् , अद्धलक्षं| For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy