________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एष पञ्चनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलम् ॥
अस्मिन् पञ्चपरमेष्ठिमन्त्रे नव पदानि, अष्टौ संपदः, सप्त गुर्वक्षराणि, एकषष्टिलघ्वक्षराणि-सर्वाक्षराणि| अष्टषष्टिः॥ गाथाइह लोअम्मि तिदंडी सा दिव्वं माउलिंगवणमेव । परलोए चंडपिंगल-हुंडयजक्खो य दिटुंता॥ अस्य स्मरणाद् इह लोके त्रिदण्डकस्य दृष्टान्त:-शिवकुमारस्य सुवर्णपुरुषो निष्पन्नः । पश्चाद् नमस्काराद् एव १. इह लोके त्रिदण्डी सा दिव्यं मातुलिङ्गवनमेव । परलोके चण्डपिङ्गल-हुण्डकयक्षश्च दृष्टान्ताः ॥ २. तत्र दृष्टान्तो यथा-कुसुमपुरे धनश्रेष्ठी, तस्य पुत्रः शिवकुमारनामा द्यूतादिव्यसनी जातः । स च व्यसनेन एव धनक्षयं करोति, पित्रा वार्यमाणोऽपि स्वेच्छया विहरति । | एकदा व्याधितेन पित्राऽऽहूय पुत्रः प्रबोधितः, अरे!! त्वं मयि परलोकं गते बहुदुःखभागू भविष्यसि ततो मम एकं वचो धारय, पञ्चपरमे-IN ष्टिनमस्कारमन्त्रं धारय, आपतिते कष्टे एतन्मन्त्रस्मरणात् तव कष्टनिवृत्ति विनी ततः पितुर्मुखात् पुत्रेणाऽपि मत्रो गृहीतः, पिता तु परलोकं | गतः। शिवस्तु पितुः पारलौकिकी क्रियाः कृतवान् , तदनन्तरं पूर्वसेवितव्यसनेन ऋणपीडितो नगराद् बहिरेव भ्राम्यति, एकदा एकत्रिदण्डी| वनवासी इमं पप्रच्छ भोः ! खिन्नः, दीनस्वरो वने कथम् अटसि ? सोऽपि यथावृत्तं तम् उक्तवान् । ततो दण्डिना उक्तम्-मा खिद्यस्व, चेद् मदुक्तं करिष्यसि तर्हि तेऽक्षया संपद् भविष्यति; शिवेन उक्तम्-कथं तत्, पुनरपि सोऽवादीत् एकम् अक्षीणाऽहं शवम् आनय, अन्या सामग्री मदाऽऽयत्ताऽस्तु एव, तेनाऽपि लोभाऽभिभूतेन कुतोऽपि शवम् आनीय दौकितम् , दण्डिनाऽपि तैलभृतं महदयस्पात्रं भ्राष्ट्र
For Private and Personal Use Only