________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१०॥
कल्पद्रम कलिका वृत्तियुक्तं. व्याख्या.
ततस्तृतीयो वैद्यः प्राह-हे राजन् ! ममौषधं रोगसद्भावे रोग निवारयति, कदाचिद् रोगो न स्यात् तदा शरीरे तुष्टि-पुष्टि-सौभाग्या-ऽऽरोग्यम्, आगामिरोगनिवारणं च स्यात् । राजा अवादीत्-इदमौषधं सम्यक कर्तव्यम् , त्वदीयमौषधं रसायनप्रायं, तेनाऽपि वैद्येन कृतम् । राज्ञः पुत्रश्च बलिष्ठः, चिरंजीवी च बभूव । तथा एतत् कल्पसूत्रमपि श्रुतं सत् सकर्मा जीवः पूर्वोपार्जितकर्माणि निहन्ति, लघुकर्मा भवति, लघुकर्मा च क्षीणकर्मा भूत्वा अजरामरपदभार भवति ॥ अथ श्रीभद्रबाहुस्वामी मङ्गलार्थ श्रीपञ्चपरमेष्ठिनमस्कारं वदतिणमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सबसाहूणं। एसो पंच णमोकारो, सबपावप्पणासणो।मंगलाणं च सवेसिं, पढमं हवइ मंगलं ॥१॥ नमः-नमस्कारोऽस्तु, 'अरिहंताणं' अर्हग्यः-शनादिकृतां पूजामर्हन्ति, इन्द्रकृतपूजायै योग्या भवन्तीति अर्हन्तः, तेभ्योऽर्हद्भ्यो नमोऽस्तु । नमस्कारोऽस्तु सिद्धेभ्यः-सितं (बद्धम् ), ध्मातं प्रज्वालितम्-अष्टकर्मलक्षणं कर्मचक्रं यैस्ते सिद्धाः, तेभ्यः सिद्धेभ्यः । नमः आचार्येभ्यः-आचाराय योग्याः आचार्याः-पञ्चाचारपालकाः, तेभ्यः आचार्येभ्यः । नम उपाध्यायेभ्यः-उप समीपे आगत्य अधीयते द्वादशाङ्गी येभ्यस्ते उपाध्यायाः, तेभ्यः। नमोऽस्तु लोके सर्वसाधुभ्यः-साधयन्ति मोक्षमार्ग ते साधवः, तेभ्यस्साधुभ्यः।
प सिकारोऽस्तु सिदादिकृतां पूजामा
॥१०॥
For Private and Personal Use Only