SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तयोः कुगतिकारणं पर्वदिने मैथुनसेवनम् ऊचुः । एताभ्यां मातापितृभ्यां अप्रस्तावे कामक्रीडा सेविता । अतश्च त्वं भाद्रपद शुक्लपञ्चम्यां व्रतं करिष्यसि, पारणायां उत्तरपारणायां च अकर्षितधान्यं भोक्ष्यसे, एतत् तपः प्रभाबाद एतौ सुगतिभाजौ भविष्यतः । तेनाऽपि ऋषीणां वचनात् तथैव कृतम् । तौ च सुगतिभाजौ जातौ । शिवशासनेऽपि इयं 'ऋषिपञ्चमी' इति प्रसिद्धं पर्व वर्तते ॥ I तथा अयं कल्पस्तृतीयवैद्यस्य भेषजवत् सौख्यकर्ता, कर्मरोगाणां हर्ता च । तत्र दृष्टान्तो यथा - एकस्मिन् नगरे एको नृपो राज्यं करोति । तस्य एक एव पुत्रोऽस्ति । तेन पुत्रनिरोगार्थं, पुष्ट्यर्थं, कायकल्पार्थं च वैद्याः समाहूताः । तदा राजा वैद्यान् पप्रच्छ । यथा मत्पुत्रस्य शरीरे पुष्टिर्भवति, कान्तिर्भवति, आगामिनां च रोगाणां निवृत्तिः स्यात्, तद् औषधं कर्तव्यम् । तत्र त्रयो वैद्याः समागताः । प्रथमो वैद्यः प्राह-हे राजन् ! मम औषधं शरीरे रोगसद्भावे रोगं दूरीकरोति, कदाचित् शरीरे रोगो न स्यात् तदा नवीनं रोगं समुत्पादयति । राज्ञा श्रुत्वा निवेदितम् अनेन तव औषधेन अलम् । इदं तु सुप्तसिंहोत्थापनवद् न सुन्दरम् ॥ द्वितीयो वैद्योऽपि प्राह- खामिन् ! मम औषधं चैतादृशं वर्तते, यद् रोगसद्भावे रोगं निवारयति, चेद् रोगो न स्यात् तदा ममौषधं शरीरे अपगुणमपि न करोति । तद्वचोऽपि श्रुत्वा राजा प्राह-तवौषधेनापि अलम् - तद् भस्मनि हुतमिव व्यर्थम् । For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy