________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
कल्पसूत्र | ॥९॥
।
मातापितरौ व्यापन्नौ । पुत्रस्य गृहे अर्जुनो बलीवों बभूव । तस्य स्त्री तदुहे शुनी बभूव । एकदा गङ्गाधरेण कल्पद्रुम मातापित्रोः श्राद्धोत्सवः समारब्धः । तस्मिन् दिने स बलीवर्दः एकस्मै तैलिकाय मार्गितः प्रदत्तोऽस्ति । श्राद्ध
कलिका
वृत्तियुक्तं. करणावसरे तेन ब्राह्मणेन गङ्गाधरेण खजनादीनां भोजनाय क्षैरेयी पाचिताऽस्ति । सर्वे ज्ञातीया भोजनार्थ
व्याख्या. निमन्त्रिताः सन्ति । तदा शुनी दूरे स्थिताऽस्ति । क्षैरेयीं पच्यमानां विलोकयति । तदैव क्षैरेयीभाजनं उद्घाटि-IN तमुखं सर्पगरलाक्रान्तं दृष्ट्वा, 'एतत् सर्व मत्कुटुम्बं विषाक्रान्तं भविष्यति' इति ज्ञात्वा तत् क्षैरेयीभाजनं उच्छिष्टं चकार । तदा च रुष्टेन गङ्गाधरेण लकुटीप्रहारेण शुन्याः कटी भग्ना । पूत्कुर्वन्ती च शुनी वृषभचरण-| स्थाने गवादन्यां (गमाणे ) बद्धा । अन्यद् दुग्धमानीय क्षैरेयी पाचयित्वा सर्वे ब्राह्मणा भोजिताः । सन्ध्यास-19 मये च तैलिकेन स बलीवर्दो दत्तः तेन गवादन्यां बद्धः । शुन्यपि तत्रैव तिष्ठति । बलीवर्दैन संजातजातिस्मृतिना यष्टिप्रहारपीडिता कुकुरी पृष्टा-अद्य त्वं कथं पूत्करोषि ? तयोक्तम्-त्वत्पुत्रेण अहं कठ्यां यष्टिना हता। मया तु सर्वेऽपि ब्राह्मणा अद्य विषमरणाद् रक्षिताः उपकारः कृतः, त्वत्पुत्रेण च अपकारः कृतः । बलीवर्दोऽपि आह-हे प्रिये ! अहमपि अनेन पापिष्ठेन मत्पुत्रेण तैलिकाय दत्तः, तैलिकेनाऽहं सर्वस्मिन् दिने तिलयन्त्रे वाहयित्वा इदानीं पुत्राय दत्तः । सर्वदिने क्षुधया मृतः । एष वृत्तान्तो निकटप्रसुप्तेन गङ्गाधरेण सर्वः श्रुतः । तदा गङ्गाधरश्चिन्तातुरो मातापित्रोर्गत्यर्थं गृहं त्यक्त्वा परदेशे महापुरुषान् तापसान् तपः पप्रच्छ । तदा ते तापसाः
तिना यष्टिप्रहारपीडिता
कु
E
रक्षिताः उपकारः कृत,
स्व
स्मिन् दिने तिलयन वाह
॥९॥
For Private and Personal Use Only