________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तए णं समणे भगवं महावीरे संवच्छरं साहियं मासं जाव चीवरधारी होत्था, तेण परं अचेलए पाणिपडिग्गहिए।समणे भगवं महावीरे साइरेगाई दुवालस वासाइं निच्चं वोसटकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तं जहा-दिवा वा, माणुसा वा, तिरिक्खजोणिआ वा, अणुलोमा वा, पडिलोमा वा, ते उप्पन्ने सम्मं सहइ, खमइ, तितिक्खइ, अहियासेइ ॥ ११५ ॥ ततः श्रमणो भगवान महावीर एकवर्षमासेनाऽधिकं यावद्देवदूष्यवस्त्रधारी आसीत् , ततः परं वस्त्ररहितः, पाणिपात्रश्च बभूव । परं भगवतोऽयम् अतिशयो भगवान् नग्नो न दृश्यते, तथा एकदा श्रीसिद्धार्थस्य राज्ञो मित्रब्राह्मणो हि सोमभट्टः एको यदा स्वामिना सांवत्सरिकं दानं दत्तं तदास भिक्षार्थ देशान्तरे गत आसीत् । भगवदीक्षाग्रहणाऽनन्तरं तेन ब्राह्मणेन दरिद्रेण खगृहे यथागतं तथाऽऽगतम् , तदा स ब्राह्मणः स्वस्त्रिया बाद निर्भत्सितः-अरे निर्भाग्यशिरोमणे! जत्थ गओ तत्थ गओ पडुरओ पाणीयं वहइ । कप्पासो वि य विउलो लोढिजइ जह तह जणेण ॥ १ ॥ १. यत्र गतस्तत्र गतः पडुरकः पानीयं वहति । कर्पासोऽपि च विपुलो लोढ्यते यथा तथा जनेन ।
For Private and Personal Use Only