SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कल्पसूत्रं ॥१२५॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६-मानसरोदर्शनाद् देवाः सेवां करिष्यन्ति, ७- समुद्रदर्शनात् संसारं तरिष्यसि, ८-सूर्यदर्शनात् केवलज्ञानं प्राप्स्यसि, ९ - अन्जालेन मनुष्यक्षेत्रं वेष्टितं तेन प्रतापवान् भविष्यसि, १० - मेरुदर्शनात् सिंहासने स्थित्वा धर्मोपदेशं दास्यसि । इति उत्पलवचनं श्रुत्वा लोकाः वन्दनां कृत्वा स्वस्थानं जग्मुः । भगवता तत्र पञ्चदशदिनैः ऊना चातुर्मासी निर्विघ्नेन कृता, ततश्चतुर्मास्याः पारणे विहृत्य स्वामी 'मोराकसंनिवेशे' गतः, तत उद्याने कायोत्सर्गे स्थितः । तत्र च भगवतो माहात्म्यवृद्ध्यर्थं खामिशरीरे सिद्धार्थः आवेशं कृत्वा भूत-भविष्यत् - वर्तमाननिमित्तं वदति-लोकाः खामिनः सेवां कुर्वन्ति, तदा तत्र ग्रामे 'अछम्दको' नाम एको निमित्तकोऽस्ति, स च अमर्षवशात् खामिसमीपे आगत्य एवं तृणं गृहीत्वा प्रश्नं चकार । भो आर्य! एतत् तृणं त्रुटिष्यति न वा, एतादृशीं मस्करीं चकार । तदा सिद्धार्थेन उक्तं तुणं न त्रुटिष्यति, तेन यदा त्रोटितुं प्रारब्धं तावद् इन्द्रेण आगत्य तस्याऽङ्गुली त्रोटिता, स्तम्भिता च । सिद्धार्थेन पुनर्लोकानां पुरत उक्तम्- चौरोऽयम् अच्छन्दकः- वीरघोषकर्मकरस्य कांस्यपात्रं चोरयित्वा शरघूवृक्षस्य मूले निखातम् अस्ति । इन्द्रशर्मब्राह्मणस्य छागं हत्वा तन्मांसं भुक्त्वा तदस्थीनि गृहप श्राद्भागे बदरीवृक्षमूले निखातानि सन्ति । तृतीयं कर्म अस्यैव स्त्री जानाति, अहं किं वदामि; तदा स्त्रिया उक्तं भगिन्याः पतिरयम् । इति श्रुत्वा अछन्दको लज्जितः, एकान्ते आगत्य स्वामिनं प्राह- खामिन् ! भवतां बहूनि स्थानानि सन्ति, यूयम् अन्यत्राऽपि यास्यथ, परम् अहं क व्रजामि । भगवता अप्रीतिं ज्ञात्वा ततो विहृतम् For Private and Personal Use Only कल्पद्रुम कलिका वृचियुक्तं व्याख्या. ५. ।। १२५ ।।
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy