________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गृहं कारयित्वा यूयं नित्यं पूजयिष्यथ तदा न मारयिष्यामि, नो चेत् सर्वजनान् मारयिष्यामि' इति श्रुत्वा | लोकाः भयभीताः सन्तः तथैव चक्रुः । तत्र देवगृहे इन्द्रशर्मा ब्राह्मणः पूजकोऽस्ति । तत्र भगवान् सन्ध्यासमये आगत्य कायोत्सर्ग स्थितः, तदा पूजकेन उक्तम्-हे आर्य ! अत्र न स्थातव्यम् , अयं यक्षः क्रूरोऽस्ति । भगवान् मौनेन तस्थौ । अथ रात्री यक्षः प्रकटीभूय अट्टहास्यं चकार, गजरूपं कृत्वा उल्लालयामास, राक्षसरूपेण क्षुरि निष्कास्य भापयामास, सर्परूपेण ददंश तथाऽपि भगवान् ध्यानाद् न चचाल । ततः पुनर्मस्तके, कर्णयोः, नासिकायाम् , दन्तेषु, नखेषु, चक्षुषोः, पृष्टौ एतेषु सप्तस्थानेषु वेदनाम् उत्पादयामास । एवं कृतेऽपि शुभध्यानाद् न अचालीत् तदा खयमेव खिन्नः सन् यक्षः शान्ति जगाम । ज्ञानेन भगवन्तं ज्ञात्वा खापराचं क्षामयित्वा सम्यक्त्वं प्राप, गीत-गान-नाटकादिपूजां कृत्वा भक्तिं दर्शयित्वा गतः। ततः पाश्चात्यायां रजन्यां | भगवतो निद्रा आगता, तदा मुहर्तमानं प्रमादो जातः, निद्रायां दश खमाः खामिना दृष्टाः । प्रभातसमये अष्टाङ्गनिमित्तज्ञः 'उत्पलः'तत्र आगतः, तेन नैमित्तिकेन खयमेव निमित्तबलाद् लोकानां पुरतः, स्वामिनोऽग्रेच स्वमफलानि उक्तानि-प्रथमं हे स्वामिन् ! त्वया ताडप्रमाणः पिशाचो हतस्तेन मोहं हनिष्यसि, २-श्वेतकोकिलादर्शनात् शुक्लध्यानं ध्यायसि, ३-विचित्रा पश्चवर्णमयी कोकिला दृष्टा तेन अर्थरूपांद्वादशाङ्गी प्रकाशयिष्यसि,४पुष्पमालाद्वयदर्शनात् साधुधर्मम् , आवकधर्म प्रकाशयिष्यसि, ५-गवां वर्गदर्शनात् चतुर्विधसङ्घ स्थापयिष्यसि,
For Private and Personal Use Only