________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१२४॥
कलिका वृत्तियुक्तं व्याख्या.
चतुर्मास्याः यदा पञ्चदश दिनानि जातानि तदा विहारः कृतो भगवता । ततो विहृत्य 'अस्थिग्रामे शूलपाणियक्षदेवगृहे कायोत्सर्गे भगवान् स्थितः । तत्र शूलपाणियक्षो महादुष्टोऽस्ति, स प्रागजन्मनि धनदेवस्य श्रेष्ठिनो धवलो धौरयो वृषभो हि आसीत् , एकदा घनदेवेन पञ्चशतशकटाः भारेण भृत्वा संचालिताः, मार्गे वर्धमानग्रामस्य पाव वेगवतीनानी नदी समागता, तेषां शकटानाम् उत्तारणे सर्वे वृषभाः असमर्थाः आसन् , तदा धनदेवेन तेन धवलधौरेयेण सर्वे शकटा नदीम् उत्तारिताः, स वृषभः तेन भारोद्बहनेन त्रुटितः, चलितुम् अशक्त आसीत् । तदा धनदेवसार्थवाहेन ग्राममध्यस्थान बृहल्लोकान् आहृय स धौरेयः समर्पितः, कियद् द्रव्यमपि| दत्तम् , उक्तं च "भो जनाः! अयं वृषभश्चारणीयः, पालनीयः, घृत-गुडादिः अस्मै देयः” इत्युक्त्वा सार्थवाहो
गतः। तदनन्तरं ते लोकास्तस्य द्रव्यं भक्षयामासुः, स वृषभो मृतः, केनापि न संभालितः, मृत्वा शूलपाणिकाव्यन्तरो बभूव । ज्ञानेन प्रागभवं दृष्ट्वा रोषेण जनान् मारिं विकुर्व्य मारयामास । बहूनां मृतानां जनानाम् अस्थिसमूहो ग्रामस्य पाश्चें बभूव, तेन तस्य ग्रामस्य नाम लोकः 'अस्थिग्राम' इति दत्तम् । बहुजनानां मरणं दृष्ट्वाबलि-याकुल-धूप-दीपादिभिः पूजां कृत्वा जनैः सर्वैः आराधितः, तदा आकाशे स देवो जजल्प-'अरे पापाः! मद्रव्यं भवद्भिर्भुक्तम् , मम शुद्धिः केनाऽपि न कृता, अहं धनदेवस्य बलीवर्दो मृत्वा शूलपाणिः संजातोऽस्मि, इयं मदीया माया, मया एव लोकाःमार्यन्ते, यदा मदीयां मूर्ति शूलपाणिधारिणीं मम अस्थाम् उपरि देव
"चे बभूव, तन दृष्ट्वा रोषेण जनान मा वृषभो मृतः, कनादि
॥१२४॥
For Private and Personal Use Only