SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततो विहारं चकार । यदा स्वामिना दीक्षा गृहीता तदा देवेन्द्रः शरीरे चन्दनानां विलेपः कृतोऽस्ति तस्य सुगन्धेन भ्रमराः आगत्य दशन्ति, कामिनो दुष्टपुरुषाः शरीरं घर्षयन्ति, कामिन्यश्च आगत्य स्वामिनः शरीरेण सह आलिङ्गनं कुर्वन्ति, भगवतः समीपे सौगन्ध्यं मार्गयन्ति च, भगवान् मेरुरिव अकम्पोऽस्ति । अथ भगवान् विहारं कुर्वन् 'मोराक'-सन्निवेशे गतः। ततः सिद्धार्थस्य राज्ञो मित्रं 'दूइजंत' इति नाम्ना तापसस्तिष्ठति, तस्य आश्रमे गतः। स भगवन्तं दृष्ट्वा सन्मुखम् आगतः, भगवान् अपि पूर्वपरिचयित्वादु बाहू प्रसार्य मिलितः। वर्षाकाले अस्माकम् आश्रमे अत्र स्थातव्यम् , इति आग्रहात् शेषकाले विहारं कृत्वा वर्षासमयोपरि तत्र आगत्य खामी चतुर्मासं स्थितः, तापसेन खउटजे स्थापितः, तत्र दैवयोगाद् मेघवृष्टिर्नाऽभूत्, तदा तत्रस्था गोः महिज्यादयः पशवः आगच्छन्तो, निर्गच्छन्तः तापसस्य तृणोटजं भक्षयन्ति, भगवान् तान् न हक्कयति, तदा तापस उपालम्भं ददाति-हे देवानुप्रिय ! त्वं कथं गो-महिष्यादीन् न निवारयसि, त्वम् अतीव अलसोऽसि, यस्मिन् |उटजे स्थितोऽसि तस्यापि रक्षां कर्तुं न क्षमोऽसि, हक्कयितुम् अपि असमर्थोऽसि इत्युक्ते सति भगवता मनसि अप्रीतिम् उत्पद्यमानां-ज्ञात्वा विहृतम् । पञ्च अभिग्रहाश्च गृहीताः । पञ्च अभिग्रहाश्व इमे-१ अप्रीतिकरे स्थाने न स्थातव्यम् , २ पुनर्यावत् छद्मस्थाऽवस्था, तावद् मौनेन कायोत्सर्गे स्थातव्यम्, ३ कायेन ऊर्ध्वतया स्थेयम् , ४ गृहस्थस्य विनयो न कर्तव्यः, ५ सदा पाणिपात्रेण आहारः कर्तव्यः । एते पञ्च अभिग्रहाः गृहीताः। For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy