SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अथ मत नन्तिवनामये दिवस व खचलीवास्ततो दृष्टा सर्वेऽपि तीर्थंकराः यावद् गृहे तिष्ठन्ति तावद् ज्ञानत्रयेण विराजन्ते, यदा चारित्रं गृह्णन्ति तदा चतुर्थ ज्ञानम् उत्पद्यत । यावत्सकलकर्मक्षयो न भवति तावत् केवलज्ञानं नोत्पद्यते । अथ भगवता श्रीमहावीरेण दीक्षा गृहीता तदा शकादयश्चतुर्निकायिका देवा महोत्सवं कृत्वा, वन्दनां विधाय नन्दीश्वरद्वीपे यान्ति, अष्टाह्निकामहोत्सवं कृत्वा स्वस्थानं यान्ति । अथ श्रीवर्धमानस्वामी अपि दीक्षां गृहीत्वा नन्दिवर्धनं पृष्ट्वा |विहारं करोति । यतः राजाज्ञां विना साधुन विहारं करोति । नन्दिवर्धनोराजाऽपि वन्दनां कृत्वा विषण्णः सन् गृहे आयाति, अन्येऽपि नागरिकाः खगृहम् आयान्ति । तस्मिन् समये दिवसं घटीद्वयं तिष्ठति, भगवान् |विहृत्य कुंमार-ग्रामस्य पार्श्वे आगत्य कायोत्सर्ग तिष्ठति, तदा एको गोपालकः खवलीवदान् भगवतो भलाप्य स्वयं गृहे गत्वा कियति काले आगतः, बलीवर्दाश्चरन्तः कुत्रचिद् निसृत्य गताः, इतस्ततो दृष्टाः, यदा कुत्रापि न दृष्टाः तदा भगवन्तं पृष्टवान्-आर्य ! मम बलीवः क गताः ? भगवान् मौनधारी न जल्पति, तदा राशिं द्विगुणाम् , त्रिगुणां कृत्वा वधाय सन्नद्धो जातः । तस्मिन् समये एव इन्द्रोऽवधिज्ञानेन भगवन्तम् उपसर्गसहितं दृष्ट्वा आगत्य गोपालकं प्रति उवाच-रे दुष्ट ! अयं श्रीवर्धमानोऽस्ति, नन्दिवर्धनराज्ञो भ्राता, इत्युक्त्वा गोपालक इन्द्रेण तर्जितः । इन्द्रो वर्धमानखामिनं तदा इत्याह-हे खामिन् ! द्वादशवर्षाणि यावद् युष्माकं छद्मस्थाऽवस्थाऽस्ति, ये उपसर्गा उत्पत्स्यन्ते तान् अहं निवारयिष्यामि, भवतां सेवां करि For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy