________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं ॥१२२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करेमि सामाइयं, सवं सावजं जोगं पञ्चक्खामि, जावज्जीवाए तिविहंतिविहेणं-मणेणं, वायाए, कायेणं न करोमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि तस्स पडिक्कमामि, निंदामि गरिहामि, अप्पाणं वोसिरामि ।
एवम् उक्त्वा चारित्रं गृह्णाति । 'भन्ते' इति पदं न वदन्ति यतो भगवान् स्वयं संबुद्धोऽस्मि । भगवान् जगद्गुरुः, तस्य न कोऽपि गुरुरस्ति, 'छद्वेणं भत्तेणं अपाणएणं' भगवता तदा द्वौ उपवासौ कृतौ तौ अपि चतुर्विधाssहाररहितौ, एकोपवासः प्राकृतः, ततः पश्चाद् अपरः उपवासः कृतः । उत्तराफाल्गुनीनक्षत्रे चन्द्रसंयोगे समागते सति, एकाकी, राग-द्वेषरहितः, अपरः सार्थः कोऽपि नास्ति, यतो दुःषमकालकस्य विशेषात् भगबता समं केनाऽपि दीक्षा न गृहीता । अथ श्रीवर्धमानखामी लोचं कृत्वा, द्रव्यतः मुण्डो भूत्वा, क्रोधादिकपायं त्यक्त्वा, भावमुण्डो भूत्वा 'अगाराओ अणगारिअं पचइए' गृहवासं त्यक्त्वा अनगारो बभूव । तस्मिन् समये इन्द्रः, सपादलक्षमूल्यं देवदृष्यं वस्त्रं वामस्कन्धे मुञ्चति, तदा भगवतो मनः पर्यवज्ञानं समुत्पन्नम् । यदुक्तम्तिहिं नाणेहिं समग्गा, तित्थयरा जाव हुंति गिवासे । पडिवत्तम्मि चरित्ते, चउनाणी जाव छउमत्था ॥ १ ॥ १. त्रिभिः ज्ञानैः समग्राः तीर्थंकराः यावद् भवन्ति गृहवासे । प्रतिपन्ने चारित्रे चतुर्ज्ञानिनः यावत् छद्मस्थाः ॥
For Private and Personal Use Only
कल्पद्रुम कलिका
वृचियुक्तं.
व्याख्या.
॥१२२॥