SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मुखसहस्रेण स्तूयमानः सन्, हृदयसहस्रेण चिन्त्यमानः, अस्य भगवतः आज्ञा सर्वदा धियते एतादृशैर्मनोरथसहस्रैः श्लाघ्यमानः अङ्गुलीमालासहस्रेण जनैर्जनेभ्यः सादरं दर्श्यमानः, भगवान् अपि पुरुषाणां स्त्रीणां नमस्काराणि गृह्णानः, पुनर्वेणुवीणादिवादित्राणां शब्देन सहगीत-गानेन सह 'जय जय नन्दा' इत्यादिवचनेन मिश्रितं यद् अव्यक्तकोलाहलोऽपि सावधानः श्रीवर्धमानः छत्रचामरादिसर्व आभरणादीनां सर्वकान्त्या, | सर्वगजा-श्व-रथ-मनुष्यादिसमुदायेन सर्वोचितकार्यकरणस्य आदरेण सर्वविभूत्या, सर्वशोभाया, सर्वहर्षोत्कर्षेण सर्वसङ्गमेन, सर्वस्वजनानां मेलापेन सर्वनगरवास्तत्र्यअष्टादशश्रेणि-प्रश्रेणिसहितः सर्वनाटकेन, सर्वएकोनविंशतिकोटिताल भेदेन, पुनः सर्वपुष्प-फल- गन्ध-माल्या- ऽलंकारेण, शङ्ख - भेरि - पटह - मृदङ्ग - झल्लरीखरमुखीप्रमुख वाजिन्त्रप्रतिशब्देन सह क्षत्रियकुडण्ग्राममध्ये मध्ये भूत्वा यत्र ज्ञातवनखण्डम्, यत्राऽशोकवृक्षस्तत्राऽऽयाति, तत्राऽऽगत्य अशोकवृक्षस्याऽधः शिविकां स्थापयति, शिविकातः उत्तीर्य स्वयमेव अङ्गोपाङ्गाद् आभरणानि उत्तारयति, नन्दिवर्धनस्य समर्पयति, पश्चात् खयमेव पञ्चमुष्ट्या केशान् लुञ्श्चयति, तदा श्रीवर्धमानस्य केशान् इन्द्रो गृहीत्वा क्षीरसमुद्रे प्लावयति । तस्मिन् समये इन्द्रः उच्चैः शब्देन स्वर्णकम्बां भ्रामयित्वा सकलम् अपि वादित्रादि कोलाहलं निवारयति तथा 'निरोल छीक राखिज्यो' एवं वदति-लोकाः सर्वेऽपि सावधाना भवन्ति । अथ भगवान् लोचं कृत्वा 'नमः सिद्धेभ्यः' इति वदति For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy