SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पमूत्रं कलिका ॥११९॥ वृत्तियुक्त. व्याख्या. हतरिका हंसलक्षणं पटशाटकम् आदाय तिष्ठति, वामपावें प्रभोरम्बधात्री दीक्षाया उपकरणम् आदाय तिष्ठति, पृष्ठे च एका स्फारशृङ्गारतरुणा स्त्री धवलं छत्रं मस्तके धृत्वा तिष्ठति, ईशानकूणे च एका स्त्री गगनीरभृतकलशं गृहीत्वा तिष्ठति, आग्नेयकूणे एका सधवा स्त्री कनकदण्ड-मणि-विचित्रं व्यञ्जनं लात्वा भद्रासने निषीदति, सौधर्मेन्द्र-ईशानेन्द्रौ चामरैर्भगवन्तं वीजयतः, नगरस्य प्रतोली यावद् मनुष्यैः शिविका उत्पाटिता, |पश्चात् सुरेन्द्र-असुरेन्द्र-नागेन्द्रा उत्पाटयन्ति । तत्र शक्रः शिबिकायाः दक्षिणाम् उपरितनी बाहाम् उत्पाटयति, ईशानेन्द्रः उत्तरां उपरितनी बाहाम् उत्पादयति, चमरेन्द्रोऽधस्तनी दक्षिणां बाहाम् उत्पाटयति, बलेन्द्रोऽधस्तनी उत्तरां बाहाम् उत्पाटयति, शेषा-भवनपति-व्यंतरा-ज्योतिष्कवैमानिकेन्द्राः यथायोग्यम् उत्पाटयन्ति, तदने एके देवाः मार्गे पञ्चवर्णपुष्पाणां वृष्टिं कुर्वन्ति, एके देवाः देवदुन्दुभिं वादयन्ति, एके नर्तन्ते । सर्वे नागरिकलोकाः, नार्यश्च भगवद्दीक्षाया महोत्सवदर्शनाय सार्थे भवन्ति, क्षत्रियकुण्डग्रामनगरस्य मार्गोऽतीव संकीर्णो जातः, भगवतः शिविकायाः अग्रेदेवानाम् , मनुष्याणां च महान् संमर्दो जातः । अथ शिबिकायाः पुरतः अष्टौ मङ्गलानि सौवर्णस्थालेषु लिखित्वा प्रचलन्ति, ततः पूर्णकुम्भः सधवस्त्रिया मस्तके धृतः, ततो भृङ्गारः, ततश्चामराणि, ततः उन्नताः अनेके ध्वजाः, ततः श्वेतच्छत्रम्, ततः स्वर्ण-रत्नजटितं सिंहासनं प्रचलति, ततः पश्चाद अष्टोत्तरशतं सपल्ययनाः, वरतुरङ्गमाः । अष्टोत्तरशतं घण्टानां येषु विराजते, सम्यग्मुखमल्लादिगुप्तिभिर्विरा-1 ॥११९॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy