________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir भोइत्ता चिच्चा हिरणं, चिच्चा सुवण्णं चिच्चा धणं, चिच्चा रजं, चिच्चा रटुं, एवं बलं, वाहणं, कोसं, कोट्रागारं, चिच्चा पुरं, चिच्चा अंतेउरं, चिच्चा जणवयं, चिच्चा विपुलधणकणग-यणमणि-मोत्तिय-संख-सिल-प्पवाल-रत्त-रयणमाइयं संतसारसावइज्जं विच्छड्डुइत्ता, विगोवइत्ता दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता // 106 // पुनरपि लोकान्तिकदेवैः पञ्चमदेवलोकवासिभिः-तृतीयप्रतरे कृष्णराजीविमानस्य अष्टसु अन्तरेषु अष्टासु दिक्ष अष्टौ विमानानि सन्ति, तत्र नवमं विमानम् , तेषां विमानानां मध्येऽस्ति, एवं नव विमानानि सन्ति, तेषु अष्टसु विमानेषु संख्यातभवाः संसारिणो देवाः सन्ति, मध्यस्थे विमाने ये देवास्ते असंख्याताः एकावतारिणः, लोकशब्देन ब्रह्मदेवलोकः, तस्मिन् ते वसन्ति इति लोकान्तिकवासिनः, अथवा लोकस्य संसारस्य अन्तोऽस्ति येषां ते लोकान्तिकाः, ते देवाः सर्वेऽपि सम्यक्त्वधारिणः, अष्टसागराऽऽयुष्काः, तेषां नामानिसारखतः, आदित्यः, वह्निः, वरुणः, गर्दतोयः, तुषितः, अव्यायाधः, आग्नेयः, अरिष्ट:-एवं तैनवप्रकारैः लोकान्तिकैर्देवैः श्रीवर्धमानखामी पूर्वोक्ताभिः वाग्भिः प्रतिबोधितः। यद्यपि तीर्थकराः खयंसंबुद्धा भवन्ति, तथापि For Private and Personal Use Only