________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वनेऽपि दोषाः प्रभवन्ति रागिणां, गृहेऽपि पश्चेन्द्रियनिग्रहस्तपः ।
अकुत्सिते कर्मणि यः प्रवर्तते, निवृत्तरागस्य गृहे तपोवनम् ॥१॥ ___ यो रागसहितः पुरुषो भवति तस्य वने वसतोऽपि विकार उत्पद्यते, पुनर्यस्य पुरुषस्य पश्चेन्द्रियाणि वशीभवन्ति तस्य पुरुषस्य गृहे तिष्ठतोऽपि तपस्या एव वर्तते, सत्कर्म कुर्वतः पुरुषस्य-रागद्वेषाभ्यां रहितस्य गृहे वसतोऽपि चारित्रधरस्य सादृश्यं वर्तते । यतः पुनरपि उक्तम्राग-द्वेषौ यदि स्यातां तपसा किं प्रयोजनम् । तावेव यदि न स्यातां तपसा किं प्रयोजनम् ? ॥१॥
एवं राग-द्वेषरहितः प्रासुकाऽन्नं भुञ्जानः श्रीमहावीरो वर्षद्वयं स्थितः, यदा वर्षद्वयोर्मध्ये एकवर्ष गतम्, एकवर्ष स्थितम् ।
समणस्स णं भगवओ महावीरस्स पिया कासवगोत्ते णं, तस्स णं तओ णामधिज्जा एवमाहिजंति, तं जहा-सिद्धत्थे इ वा, सिजसे इ वा, जसंसे इ वा । समणस्स भगवओ महावीरस्स माया वासिटुसगुत्ते णं, तीसे तओ णामधिज्जा एवमाहिजंति, तं जहा-तिसला इ वा, विदेहदिण्णा इ वा, पीइकारिणी इ वा । समणस्स भगवओ महावीरस्स पित्तिजे सुपासे,
For Private and Personal Use Only