________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वदति, खजल्पितस्य निर्वाहकृद् भवति । असारपदार्थस्य आडम्बरं महद् भवति, यथा कांस्यपात्रस्य महान् शब्दो भवति, स्वर्णपात्रस्य शब्दो न भवति । अस्मिन् अवसरे इन्द्रः स्वयमेव ब्राह्मणस्य रूपं विधाय उपाध्यायसमक्षं एव भगवन्तं प्रणिपत्य शब्दानां संदेहान् पृच्छति-तदा भगवान् श्रीमहावीरः अष्टानां व्याकरणानां तत्त्वं इन्द्रस्य अग्रे शब्दसाधनं प्रकाशयति । तस्मिन् समये सर्वे लोका भगवद्वाणीं श्रुत्वा चिन्तयन्ति-असौ वैदेशिकः सर्वविद्यापारगो ब्राह्मणस्तस्य प्रश्नानाम् अपि उत्तरं वर्धमानकुमारो ददाति, अनेन कुमारेण मातृकाऽपि नाऽधीताऽस्ति, इदं महच्चित्रम् । तदा तत्रस्थोपाध्यायस्यापि प्रश्नानाम् उत्तराणि श्रीवर्धमानकुमारेण दत्तानि, तदा इन्द्रः खरूपं प्रकटीकृत्य सर्वलोकसमक्षम्, मातृ-पितृ-उपाध्यायादिसमक्षम् अवादीत्-अहो जनाः! अयं वर्धमानकुमारः सामान्यमनुष्यमात्रो नास्ति, त्रैलोक्यनायकोऽयं सवोऽस्ति। तदा दशाङ्गव्याकरणं कृतम् , जिनेन सूत्राणि प्रतिपादितानि, इन्द्रेण वृत्तिः, उदाहरणानि दर्शतानि, तल्लोके जैनेन्द्रं व्याकरणं जातम् । तानि व्याकरणस्य दशाङ्गानि इदानींतनव्याकरणेष्वपि दृश्यन्ते, तानि अमूनि अङ्गानि-संज्ञा-परिभाषा-विधिनियम-अतिदेश-अनुवाद-प्रतिषेध-अधिकार-विभाषा-निपातानि-एतानि दश व्याकरणस्य अङ्गानि प्रवर्तन्ते। पुनर्लोकानां पुरतः इन्द्रेण उक्तम्-त्रिजगन्नायकस्य अन्यः कोऽपि त्रिभुवनेऽपि साम्यं कर्तुं न समर्थः । यथा मूर्ख-दक्षयोरन्तरम्, शुक्ल-कृष्णयोः, रके-श्वरयोः, सरः-सागरयोः, सूर्यः-प्रदीपयोरनन्तरम् तथा अपरलोक
For Private and Personal Use Only