SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पसूत्रं कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ॥११४॥ इन्द्र आसनप्रकम्पाद् अवधिज्ञानेन ज्ञात्वा देवानां पुरो बदति स्म-भोः भोः देवाः पश्यन्तु, भगवतो मातृ- पितरौ मोहेन ग्रथिली जातौ । | 'तिहि नाणेहि समग्गो तित्थयरो सबसत्यतत्तन्नू। जं उवणिज्जइ पाइयजणस्स तह अप्पविजस्स ॥१॥ त्रिभिः ज्ञानः सहितः तीर्थंकरः सर्वशास्त्रतत्त्वज्ञः, एतादृशो भगवान् तुच्छबुद्धीनां ब्राह्मणानां पार्श्वे पठनार्थ नीयते; एतद् न शोभते। अनध्ययनविद्वांसो निद्रव्यपरमेश्वराः । अनलङ्कारसुभगाः पान्तु युष्मान् जिनेश्वराः ॥१॥ भगवन्तस्तीर्थकराः एतादृशा वो युष्मान पान्तु । कथंभूतास्तीर्थकराः ? अनध्ययनविद्वांसः, अध्ययनं विना एव विद्वांसः पण्डिताः । पुनः कथंभूताः? निद्रव्यपरमेश्वरा:-द्रव्यं विना एव परमेश्वराः। पुनः कथंभूताः? अनलङ्कारसुभगा:-अलङ्कारेण विना एव सौभाग्यधराः एतादृशा जिनेश्वराः संसारसमुद्रादू रक्षन्तु । द्रव्यं विना तीर्थकरास्तु अतीव गाम्भीर्यधराः यतस्त्रिकालज्ञाः अपि, सर्वज्ञा अपि अपृष्टाः सन्तो न वदन्ति । यतो लोकोक्तिरियम्-पुनरपि शरत्कालो गर्जति, भाद्रपदमासे वर्षाकाले स्तोकं गर्जति परं बहु वर्षति । तथा मूर्खः, अल्पबुद्धिः, पण्डितमन्यः स बहु जल्पति, परं खजल्पितस्य निर्वाहं न करोति । पुनः पण्डितः, विधिज्ञः स्तोकं १. त्रिभिजनैः समप्रस्तीर्थकरः सर्वशास्त्रतत्त्वज्ञः । यद् उपनीयते प्राकृतजनस्य तथा अल्पविद्यस्य । THEशा घो युष्मान पान्तु परमश्वराः-द्रव्यं विना एव संसारसमुद्रादू रक्षन्त । यतो | ॥११४॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy