SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कल्पसूत्र ॥११३॥ कल्पद्रुम कलिका वृचियुक्त. व्याख्या अश्रद्धधानस्तत्र भगवत्समीपे बालकस्य रूपं कृत्वा समागतः। भगवता सह चिक्रीड। भगवान् अतीव शीघ्रगामित्वाद् देवस्य अग्रे जातः । तदा तेन देवेन भगवतो भयोत्पादनाय पिपल्याः समीपे, तथा स्कन्धे शाखासु च सर्परूपाणि फूत्कारकाणि विरचितानि, तदा श्रीवर्धमानकुमारः सर्परूपं दृष्ट्वा हस्तेन उल्लाल्य पिप्पिल्याम् आरुरोह । खामी मनसि अपि भयं न चकार । स देवबाला हारितः। श्रीवर्धमानो जितः। तदा स देवबालः श्रीवर्धमानं स्कन्धे आरोहयति । अथ भगवन्तं छलनाय स देवः खशरीरं दीर्घ चकार । एकतालप्रमाणाद् आरभ्य सप्ततालप्रमाणं कृत्वा उच्चैर्बभूव । अन्ये सर्वेऽपि बालाः भयभ्रान्ताः, वस्ताः सिद्धार्थं गत्वा तत्स्वरूपं | प्रोचुः-श्रीवर्धमानस्तु न बिभेति, परं मातृपित्रोश्चिन्तानिवारणाय भगवता वज्रप्रहारमुष्टिघातेन ताडितः सन् आकाशात् स्खलन , आरटन् , भूमौ पपात, भृशं ललज, स्वकीयरूपं प्रकटीचकार । तावद् इन्द्रोऽपि आगत्य | तं देवं भगवतः पादयोः निपात्य स्वर्ग लात्वा जगाम । तेन मिथ्यात्वं गमयित्वा सम्यक्त्वम् उपार्जितम् । तदा देवैर्महावीर इति नाम प्रदत्तम् । इति आमलिकीक्रीडा । अथ भगवतो लेखकशालागमनरूपं कथ्यते यदाअष्टवार्षिका श्रीमहावीरः संजातः, तदा मातृपितृभ्यां मोहवशात् चिन्तितम् लालयेत् पञ्च वर्षाणि दश वर्षाणि ताडयेत् । प्राप्त षोडशमे वर्षे पुत्रं मित्रं समाचरेत् ॥१॥ माता वैरी पिता शत्रुः बालो येन न पाठितः । शोभते न सभामध्ये हंसमध्ये यको यथा ॥२॥ ॥११॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy