________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपम्,
ते देवा महावीरस्य वामाङ्गुष्टस्यापि कलां न अर्हन्ति । सर्वेभ्योऽपि अधिकरूपवान् तीर्थंकरः । तस्मात् किञ्चिदूनो गणधरः । तस्मात् किञ्चिदूनश्चतुर्दशपूर्वधरः कृताऽऽहारकशरीरधारी । तस्मात् किञ्चिदूनः पञ्चाऽनुत्तरविमानवासी। ततः पश्चाद् नवग्रैवेयकवासिनो देवाः । ततो द्वादशलोकस्थाः देवाः । ततः पश्चाद् भव नपति-ज्योतिष्क- त्र्यन्तरदेवाः । ततश्चक्रवर्ति - वासुदेव - बलदेव - मण्डलीक - सामान्यराजानः एवं ततोऽनुक्रमेण उत्तरन्तः षट्संघयणसंस्थानकधारिणो मनुष्याः ज्ञातव्याः । पुनः श्रीमहावीरो जातिस्मरणज्ञानवान्, अप्रतिपा तिमतिज्ञान- श्रुतज्ञान- अवधिज्ञानवान्, ज्ञानत्रितयेन विराजमानः । देहकान्त्या सर्वेभ्योऽपि उत्कृष्टतरः । अथ भगवान् किश्चिदूनः अष्टवार्षिकः संजातः समानैः राजकुमारैः सार्धं क्रीडां करोति । तत्र देशे प्रसिद्धाम् आमलिकीं क्रीडां करोति, तत्र नगरबाह्ये पिप्पलीवृक्षोऽस्ति तत्र समस्तबालकाः एकत्रीभूय धावन्ति, क्रीडन्ति तत्र भगवान् अपि रमते, तत्र क्रीडायाम् अयं नियमोऽस्ति यः कश्चित् प्रथमं धावमानः सन् पिप्पलीम् आरोहते स जितः, स अपरस्य हारितस्य बालकस्य स्कन्धं समारुह्य यतः प्रदेशात् पूर्व धावितस्तावत्प्रदेशं यावद् आयाति इति तत्र पणः कृतोऽस्ति । अस्मिन् समये इन्द्रः भगवद्बलं देवानां पुरतो वर्णयति स्म । पुनरपि इन्द्र एवम् सर्वेषां देवानाम् अग्रे वदति स्म सर्वे देवास्तथा दानवा अपि मिलित्वा भगवन्तं भापयन्ति तथा श्रीमहावीरः खामी न विभेति । एतद् वचनं श्रुत्वा एको मिथ्यात्वी देवः इन्द्रवचनम्
For Private and Personal Use Only