SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कल्प कल्पद्रुम कलिका वृत्तियुक्तं. व्याख्या. ॥११२॥ द्यते तद् भयम् , सिंहादिभ्यः समुत्पद्यते तद् भैरवम् , एताभ्याम् उभयाभ्याम् अचलो निभेयः। क्षुधातृषाप्रमु- खपरिषहैः कृत्वा पीडां न प्रामोति-परिषहोपसर्गाणां क्षन्ता, प्रतिमानां सर्वतो भद्रादीनां पालकः, चतुर्भिान- विराजमानः, धीमान् , ज्ञानवान्, धैर्यवान्, अरर्ति रतिं च सहते, सुख-दुःखसहने राग-द्वेषाभ्यां रहितस्तस्माद् द्रव्यवीर्यसंपन्नः, मुक्तिं गन्तुं कृतनिश्चयोऽस्ति तथापि चारित्रं पालयति, एतैः गुणैः कृत्वा देवैः महावीर इति नाम प्रदत्तम् , इदं तृतीयं नाम । आमलकीक्रीडायां देवैर्महावीर इति नाम प्रदत्तम् । अह वड्डइ सो भयवं दियलोयचुओ अणोवमसिरीओ । दासिदासपरिवुडो परिकिन्नो पीढमद्देहिं ॥१॥ अथ श्रमणो भगवान् महावीरो वर्धते, देवलोकात् पुष्पोत्तरपथमपुण्डरीका विमानात् च्युतः, अनुपमश्रीयुक्तः, दास-दासीभिः परिवृतः, पीठमर्दैः सेवकैः अङ्गशुश्रूषाकारकैः पुरुषैः परिकीर्णः सेव्यमानः। अंसियसिरओ सुनयणो बिंबोहो धवलदंतपंतीओ। वरपउमगभगोरो फुल्लुप्पलगंधनीसासो॥२॥ | असितशिरस्कः, सुनयनः, बिम्बोष्टः, धवलदन्तपतिः, यादृशः कमलस्य गर्भः, ईदृशो गौरवर्णः, विकसितकमलस्य गन्धवद् निःश्वासः, सर्वेषां देवानाम् अपि यादृशं रूपं भवति तस्माद् अपि श्रीमहावीरस्य अधिक १. अथ वर्धते स भगवान् दिवलोकच्युतोऽनोपमश्रीकः । दासीदासपरिवृतः परिकीर्णः पीठमर्दैः ।। २. असितशिरोजः सुनयनः विम्बोष्ठः धवलदन्तपतिकः । वरपद्मगर्भगौरः फुल्लोत्पलगन्धनिःश्वासः । ॥११२॥ For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy