SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir उच्चारयन् मातृपुत्रयोः सूर्यदर्शनं कारयति । ततो गुरुः आशीर्वाद ददाति । पुनः षष्ठे दिवसे धर्मजागरिकया जागर्ति । एकादशे दिने अशुचिकर्मनिवृत्तिः कृता, मृदभाण्डानां विसर्जनं कृतम्, नवीनवस्त्रपरिधानं विहितम् । अथ द्वादशे दिवसे संप्रासे विस्तीर्णम् अशन-पान-खादिम-खादिमादि-चतुर्विधाऽऽहारं निष्पादयति, रसवतीं निष्पाद्य राजा सिद्धार्थी मित्राणि, ज्ञातीयान्, निजकान् आत्मीयपुत्रपौत्रान् , पितुबान्धवान्, संबन्धिनः श्वशुरादीन् , तथा खजनान् आत्मीयदासीजनान, पुनातान् सिद्धार्थराज्ञ एव गोत्रीयान् तथा पुनः क्षत्रियान् अपरग्रामवासिनः क्षत्रियान् एतान् अपरान् अपि बृहल्लोकान् निमन्त्रयति । पश्चाद् भगवन्तं तथा भगवदुमातरं संस्लाप्य, बलिकर्म कृत्वा, पश्चात् प्रायश्चित्तं कृत्वा, विघ्ननिवारणाय कौतुकं मषीतिलकादिकं करोति । पुनर्माडालिकम-सर्षप-दधि-दूर्वा-ऽक्षततिलकं मस्तके धारयति । नवीनवस्त्राणि परिदधाति । पुनः अल्पमोल्यानि तथा बहुमौल्यानि आभरणानिधृतानि, भोजनसमये भोजनमण्डपे सर्वे सुखेन पूर्वोक्ता लोकास्तिष्ठन्ति । पुनः पूर्वोक्तान मित्र-ज्ञाति-निजकान् अशन-पान-खादिम-खादिमचतुर्विधाहारैः पोषयति । तत्र कानिचिद् आहाराणि आखाद्यानि तानि आहाराणि आखादयन्तः, यानि ईषत् खाद्यन्ते बहु त्यज्यन्ते यथा इक्षुखण्डादीनि, तथा कानिचिद् विखाद्यमानानि यानि बहूनि खाद्यन्ते स्तोकानि त्यज्यन्ते यथा ख‘रादीनि तानि आहाराणि विखादयन्तः, तथा कानिचित् परिभुज्यमानानि यानि आहाराणि सर्वाणि भुज्यन्ते यथा मोदकादीनि तानि For Private and Personal Use Only
SR No.034665
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorLakshmivallabh Upadhyay
PublisherNirnaysagar Press
Publication Year1918
Total Pages577
LanguagePrakrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy