________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
॥१०७॥
कल्पद्रुम कलिका वृत्तियुक्त. व्याख्या.
तथा अधरिमं परस्परं कोऽपि धरणं न ददाति, ऋणं कोऽपि दशदिवसं न याचयति । पुनः क्षत्रियकुण्डग्राम नगरम् उत्कृष्टरूपाणां गणिकानां नाटकेन कलितम् , अनेकतालवादकनाटकानुचरितम् अनुपश्चाद उद्भतमृदङ्ग वादनार्थं सज्जीकृतमृदङ्ग, सरसविस्तारितपुष्पमालाप्रकरम् , प्रमुदितमक्रीडितजनपदम् एवं दशदिवस यावस्थितिपदिकाम् आत्मीयकुलक्रमाद् आगतमर्यादां पुत्रजन्मोद्भवां राजा सिद्धार्थो दशदिनं यावत् क्षत्रियकुण्डग्रामे करोति, तद्यथा
तए णं से सिद्धत्थे राया दसाहियाए ठिईवडियाए वट्टमाणीए सइए य, साहस्सिए य, सयसाहस्सिए य जाए य, दाए य, भाए अ, दलमाणे अ, दवावेमाणे अ, सइए अ, साहस्सिए अ, सयसाहस्सिए य लंभे, पडिच्छमाणे य, पडिच्छावेमाणे य एवं विहरइ ॥ १०१ ॥ ततः सिद्धार्थो राजा दशदिवससत्कायां कुलमर्यादायां कृतायाम् एकशतप्रमाणम् , अन्यं सहस्रप्रमाणम् , तृतीयं लक्षप्रमाणं-यस्मिन् शतद्रव्यं लगति, यस्मिन् सहस्रद्रव्यं लगति, यस्मिन् लक्षद्रव्यं लगति एतादृशो यागो देवपूजनं तन्निमित्तं द्रव्यं धारयति । तथा पुनर्भागो द्रव्यांशः, अष्टमी-चतुर्दशीदिने पौषधग्राहिणां भ|क्तिनिमित्तम् उत्पन्नद्रव्यस्य कल्पितो वण्टः, तथा पुन यो दातव्यं द्रव्यं-पूर्वम् एव दानधर्मार्थ कल्पितं द्रव्यम्
॥१०७॥
For Private and Personal Use Only